SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् वर्षेषु परिपूर्णेषु तस्य तद् निरुद्धवर्षपर्यायत्वमभवत्; स त्रिषु पूर्णेषु वा अपूर्णेषु वा वर्षेषु निरुद्धेषु आचार्ये कालगते अन्यो बहुश्रुतोऽपि लक्षणसम्पूर्णो न विद्यते। स चासमाप्तश्रुतोऽपि लक्षणयुक्तो ग्रहणधारणसमर्थश्चेति स्थाप्यते, बहुश्रुतोऽप्यन्यो न स्थाप्यते। किन्तु सोऽसमात श्रुतोऽपि लक्षणयुक्तः इति, अत्र किं कारणम्? अत आह लक्खणेत्यादि, लोके वेदे समये च विशारदा नायकत्वपदाध्यारोपे प्रशंसन्ति लक्षणयुक्तं, नेतरं बहुश्रुतमपि, ततः स एव स्थाप्यते॥ १५४४॥ तृतीय उद्देशकः ७३८ (B) अत्र पर आहकिं अम्ह लक्खणेहिं, तव-संजमसुट्ठियाण समणाणं?। गच्छविवड्डिनिमित्तं, इच्छिज्जइ सो जहा कुमरो ॥ १५४५ ॥ किमस्माकं श्रमणानां तपः-संयमसुस्थितानां लक्षणैः? केवलं लक्षणहीनोऽपि , बहुश्रुतः स्थाप्यतां येनास्माकं स्वाध्यायवृद्धिर्भवति। आचार्य आह-सोऽल्पश्रुतोऽपि लक्षणयुक्ततया गणधरपदस्थापनायामिष्यते गच्छविवृद्धिनिमित्तं, यथा राज्यवृद्धिनिमित्तं राज्ये कुमारः ॥ १५४५॥ गाथा १५४४-१५४८ नायकगुणाः ७३८ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy