________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् तृतीय उद्देशक:
७२८ (B)
पूर्वं योधा महाप्राणाः सहस्रमल्ला आसीरन्, इदानीं तेन तुल्या न सन्ति, किन्त्वनन्तभागहीनाः, ततः किं ते योधा न भवन्ति? भवन्त्येव, कालौचित्येन तेषामपि योधकार्यकरणादिति भावः११ ॥ १५१८ ॥
शोधिदृष्टान्तमाहपुब्बिं छम्मासेहि परिहारेणं व आसि सोही उ। सुद्धतवेणं निव्वीइयादि इण्हिं विसोही उ॥ १५१९ ॥ दारं १२ ।
पूर्वं षड्भिर्मासैः परिहारेण वा परिहारतपसा शुद्धतपसा वा शोधिरासीत्, इदानीं | निर्विकृतिकादिभिरपि विशोधिः, पञ्चकल्याणक-दशकल्याणकादिमात्रप्रायश्चित्तदानव्यवहारात् १२ ॥ १५१९ ॥
शोधिविषय एव पुष्करिणीदृष्टान्तमाहकिह पुण एवं सोही ? जह पुव्विल्लासु पच्छिमासुं च। पुक्खरिणीसुं वत्थाइयाणि सुझंति तह सोही ॥ १५२० ॥ दारं १३।।
गाथा |१५१७-१५२३
पर्यायेण पदधारणयोग्यता
७२८ (B)
For Private and Personal Use Only