________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
तृतीय
ननु पूर्वमाचार्यपदयोग्यस्य दीर्घः पर्यायो वर्णितः, संहननं चातिविशिष्टम्, श्रद्धा च प्रवचनविषयाऽत्युत्तमा, आगमतश्चाऽऽचार्यपदयोग्या जघन्यतोऽपि दशपूर्विकाः तथा धीरा बुद्धिचतुष्टयेन विराजमानाः, ततः एवं पूर्वं वर्णयित्वा यदेवमिदानी प्ररूपयथ यथा 'त्रिवर्षपर्याय आचारप्रकल्पधर उपाध्यायः स्थाप्यते, पञ्चवर्षपर्यायो दशा-कल्प-व्यवहारधर' इत्यादि, सैषा प्ररूपणा मार्जाररुतं मार्जाररटितकल्पा, यथाहि मार्जारः पूर्वं महता शब्देनाऽऽरटति पश्चादेवं शनैः शनैरारटति यथा स्वयमपि श्रोतुं न शक्नोति, एवं त्वमपि पूर्वमुच्चैः शब्दितवान्, पश्चाच्छनैरिति । सूरिराह- सत्यमेतत्, केवलं यत्पूर्वमुक्तं तद् यथोक्तं न्यायमङ्गीकृत्य, सम्प्रति पुन: कालानुरूपं प्रज्ञाप्यते इत्यदोषः। तथा चात्र पुष्करिण्यादयो दृष्टान्ताः ॥१५०६ ॥
उद्देशकः
७२५ (A)
तानेवाह
गाथा १५०४-१५०९ कालपरिवर्तने दृष्टान्ताः
पुक्खरिणी१ आयारे, आणयणाश्तेणगा य३ गीयत्थे४।। आयरियम्मि उ एए, आहरणा होंति नायव्वा ॥१५०७ ॥
७२५ (A)
१. ररुदिक' वा. मो. पु.॥
For Private and Personal Use Only