________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् तृतीय उद्देशकः ७१२ (B)
कायिकादिभेदतश्चतुर्धाऽधस्तात् पीठिकायां [गा.....] अभिहितः, तदनुगता योगा मनोवाक्कायास्तेषां योजनं व्यापारणमवश्यकरणं प्रतिरूपयोगयोजनम् ६। नियोगत्ति यो यत्र वस्त्राद्युत्पादने नियोक्तव्यः तत्र तस्य नियोगं करोति ७। पूजा जहा कमसोत्ति गुर्वादीनां यथानुरूपं क्रमशो येन पूजा क्रियते ८॥१४६३ ॥ अपरुषमनिष्ठुरं, मन:प्रह्लादकृदित्यर्थः, तद्भाषते९ अणवलत्ति अत्र प्राकृतत्वाद् यकारलोपः, तेन अणवलया इति द्रष्टव्यम्। तत्र वलया-माया तस्याऽभावोऽवलया अकुटिलत्वमित्यर्थः १०। अचपल: स्थिरस्वभाव:११ । अकुत्कुचः हस्त-पाद-मुखादिविरूपचेष्टारहितः १२। अदम्भकः वञ्चनानुगतवचनविरहितः १३। सीभरो नाम य उल्लपन्परं लालया सिञ्चति, तत्प्रतिषेधादसीभरः, प्राकृतत्वात् । स्वार्थिकप्रत्ययविधानेन असीभरक:१४ । एष सर्वोऽपि किल विनय इति वीर्याचार: प्रतिपादितो द्रष्टव्यः । सम्प्रति शेषाणां ज्ञानाद्याचाराणां प्ररूपणानिमित्तं पश्चार्द्धमाह- सहियेत्यादि, सहितो नाम यो यस्य ज्ञानादेरचितः कालस्तेनोपेतः। किमुक्तं भवति ? काले स्वाध्यायं करोति, काले प्रतिलेखनादिकम् काले च स्वोचिते तप इति १५ । सम्यक् आहितो यद् यस्योपधाने १. करणं अविभक्तयोगितया यत्र वस्त्र । पु। करणं अविभक्तविभाग योजनं नियोगित। या यत्र वस्त्रा' वा. मु.॥
गाथा १४६३-१४६८ आचारकुशलस्वरूपम्
७१२ (B)
For Private and Personal Use Only