SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७०५ (A) www.kobatirth.org द्वितीयं पुरुषयुगम् २ प्रपितामहपरिवारं सर्वं लभते इति तृतीयं पुरुषयुगं ३ । एतानि त्रीण्युपरितनानि पुरुषयुगानि । साम्प्रतमधस्तनानि त्रीणि भाव्यन्ते- गुरुभ्रातृप्रव्राजितं समस्तं परिवारं लभते इत्येकं पुरुषयुगम् १, भ्रातृव्यप्रव्राजितमपि सर्वं लभते परिवारमिति द्वितीयं पुरुषयुगम् २, भ्रातृव्यप्रव्राजितैरपि प्रव्राजितान् समस्तान् लभते इति तृतीयं पुरुषयुगम् ३। तदेवमधस्तनानि त्रीणि पुरुषयुगानि त्रीण्युपरितनानीति मिलितानि षड् जातानि । तथा आत्मना ये प्रव्राजिताः पुत्रस्थानीया ये च तैः प्रव्राजिताः पौत्रस्थानीयाः ये च तैरपि प्रव्राजिता प्रपौत्रकल्पाः, एष सर्वोपि समुदाय एकं पुरुषयुगम् । इदं च षट्सु मेलितमिति पुरुषयुगं सप्तधा भवति । तथा चाह- पुरिसजुगं सत्तहा होइ ॥ १४५० ॥ एतदेव स्पष्टयति मूलारिए वज्जित्तु, उवरि सगणो उ हेट्ठिमे तिन्नि । अप्पा य सत्तमो खलु, पुरिसजुगं सत्तहा होइ ॥ १४५१ ॥ Acharya Shri Kailassagarsuri Gyanmandir मूलाचार्यान् पितृ-पितामहलक्षणान् वर्जयित्वाऽन्य उपरितनः समस्तोऽपि स्वगणस्तस्याऽऽभवति । एतेन त्रीणि पुरुषयुगान्युपात्तानि । अधस्तनान्यपि च प्रागुक्तस्वरूपाणि त्रीणि For Private and Personal Use Only गाथा | १४४८ - १४५२ आभवन स्वरूपम् ७०५ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy