SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् तृतीय उद्देशकः ७०५ (B)| पुरुषयुगानि लभते। आत्मा च आत्मीयश्च पुत्र-पौत्र-प्रपौत्रलक्षणः परिवारः सप्तम इति पुरुषयुगं सप्तधा भवति। भावना प्रागेवोक्ता ॥ १४५१ ॥ अत्रैव प्रकारान्तरमाहअहवा न लभति उवरिं, हेटुच्चिय लभइ तिण्णि तिण्णेव। तिण्णऽत्तलाभ परलाभ छप्पि दासक्खरन्नायं ॥ १४५२ ॥ अथवेति आभवनस्य प्रकारान्तर[ता]सूचने। यान्युपरितनानि त्रीणि पुरुषयुगानि प्रागुक्तानि, तानि नैव लभते, गरीयस्तया एकगुरुदीक्षितत्वेन समानतया च तेषां तदायत्तत्वायोगात्। हेट्ठच्चिय लभइ तिणित्ति यानि पूर्वं त्रीणि पुरुषयुगान्यधस्तनानि प्रदर्शितानि तेषां ग्रहणार्थं प्रथमं त्रीणीत्युक्तम्, तिन्नेवत्ति तेषां पूर्वभणितानामधस्तनानां त्रयाणां पुरुषयुगानामन्यान्यप्यधस्तनानि यानि त्रीणि पुरुषयुगानि तान्यपि लभन्ते। एतानि षडपि पुरुषयुगादीनि परलाभः, त्रयः पुत्र-पौत्र-प्रपौत्रलक्षणा आत्मलाभः, इदमेकं पुरुषयुगम्। सर्वमीलने सप्त पुरुषयुगानि | तस्याऽऽभाव्यानि तेषां चाऽऽभवने ज्ञातमुदाहरणं-दास-खरौ "दासेन मे खरो क्रीतो, दासो वि मे खरो वि मे" ॥ १४५२ ॥ गाथा १४४८-१४५२ आभवन स्वरूपम् ७०५ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy