SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय .. उद्देशकः ६९८ (A) तानेवाऽऽहदीणा जुंगिय चउरो, जातीकम्मे२ य सिप्प३सारीरे४। पाणा डोंबा किणिया, सोवागा चेव जातीए ॥ १४३० ॥ दीनाः अनर्हाः । कस्मात् ? इति चेत्, उच्यते- तेषां नन्दनाभावाद्। उक्तं चदीणं दीणाभासं, दीणगति दीणजंपियं पुरिसं। कं पेच्छसि नंदंतं, दीणं दीणाए दिट्ठीए ? ॥ [ ] गाथा तथा जुङ्गिकाः हीनाश्चत्वारोऽनर्हाः, तद्यथा-जातौ कर्मणि शिल्पे शरीरे च। तत्र | १४३०-१४३४ जातौ जुङ्गिकाश्चत्वारः, तद्यथा- पाणा डोम्बा: किणिकाः श्वपचाश्च। तत्र पाणा नाम || जुङ्गिका ये ग्रामस्य नगरस्य च बहिराकाशे वसन्ति तेषां, गृहाणामभावात्। डोम्बाः येषां गृहाणि आचार्यत्वे अयोग्याः सन्ति गीतं च गायन्ति। किणिकाः ये वादित्राणि परिणह्यन्ति, वध्यानां च नगरमध्येन नीयमानानां पुरतो वादयन्ति च, श्वपचा: चण्डाला ये शुनः पचन्ति, तन्त्रीश्च विक्रीणन्तीति। ६९८ (A) एते जातौ जुङ्गिताः। उपलक्षणमेतत्, तेन ये कोलिकाः, ये च हरिकेशजातयो मेयाः, ये च For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy