SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ६९४ (A) ܀܀܀ www.kobatirth.org स्थिरो नाम यः उद्योगं कुर्वन्नपि न परिताम्यति, तथा चाह-न विश्राम्यतीति ५ । चियाय त्ति दानरुचिः। यथौचित्यमाश्रितेभ्योऽन्येभ्यश्च ददातीत्यर्थः ६ । धृतिमान् राज्यकार्याणि कुर्वन् परनिश्रामनपेक्षमाणः तथा चाह- अणिस्सिते इति [ अनिश्रितः ] ७ । बुद्धित्ति औत्पत्तिक्यादिबुद्धिचतुष्टयोपेतः ८ । विनीतः गुर्वादिषु विनयकारी, यथौचित्यं गुर्वादीनामनुवर्त्तक इत्यर्थः । करणे इति यद्राज्ञः कर्तव्यं तत्करणे कुशलः ९ । एतेषु परीक्षा क्रियते । किमेते गुणाः सन्ति न वा ? तत्र य एतैर्गुणैरुपेतो भवति स राज्ञा राज्येऽभिषिच्यते ॥ १४१६-१७ ॥ [इदानीं निर्युक्तिकृदेव सर्वाणि पदानि व्याख्यानयन्नाह-] परवादीउवसग्गे, उप्पन्ने सूरयाए संतरति १ । अद्धाण तेणमादी, ओरस्सबलेण संतरति ॥ १४१८ ॥ Acharya Shri Kailassagarsuri Gyanmandir १. सर्वेष्वप्यादर्शेषु [ ] एतादृक्कोष्ठकान्तर्गतो ग्रन्थसन्दर्भस्त्रुटितोऽस्ति । किञ्च मोमो आदर्शे १४१८-१९ गाथे उल्लिख्य तत्र " एतयोर्गाथयोः सपातनिकं व्याख्यानं त्रुटितम्" इति टिप्पनी लिखिता वर्तते, अतो ज्ञायते - प्राचीनकालादेव एष एतावान् ग्रन्थसन्दर्भस्त्रुटितोऽस्ति । अपि चात्रेदमवधेयम् - मो. आदर्शे १४१८-१९ गाथे लिखिते उपलभ्येते, तदन्येषु पुनः प्राचीनताडपत्रीय प्रभृतिष्वादर्शेषु पुनः एते गाथे अपि न स्त इति ॥ २. सूर आवई तर ला. । सूरयाए तं तरति पु. प्रे. ॥ For Private and Personal Use Only गाथा १४१८-१४२४ आचार्यस्य लक्षणानि ६९४ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy