SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय उद्देशकः ६८५ (A) सचित्तो अचित्तो मिश्रश्च। एष त्रिविधोऽपि द्रव्यपरिच्छदो भूयो द्विविधः-लौकिको लोकोत्तरिकश्च। तत्र लौकिक: सचित्तः त्रिविधो द्विपद-चतुष्पदा-ऽपदभेदात्। अचित्तो हिरण्यादिः । मिश्रः सचित्ताऽचित्तसमवायेन। लोकोत्तरिकः सचित्तो द्रव्यपरिच्छदः शिष्यादिः, अचित्त उपधिः, मिश्रः सचित्ताऽचित्तसमवायतः। तत्र लौकिको लोकोत्तरिकश्च द्रव्यपरिच्छदो द्विधा। तद्यथा- व्यापारयुक्तः, इतर: व्यापाराऽयुक्तः ॥ १३९० ॥ तत्र लौकिके व्यापारयुक्ते च निदर्शनमाहदो भाउया विरिक्का, एक्को पुण तत्थ उज्जुतो कम्मे। गाथा उचितभतिभत्तदाणं, अकालहीणं च परिवड्डी ॥ १३९१ ॥ १३८७-१३९३ गणधारणद्वौ भ्रातरौ। तौ परस्परं विरिक्तौ धनं विरिच्य पृथक् पृथग् जातावित्यर्थः। तत्र : चतुभङ्गायां तयोर्द्वयोर्मध्ये पुनरेकः कृषि कुर्वन् कर्मणि उद्युक्तः व्यापारयुक्तः। किमुक्तं भवति ? विशेषः स्वयं कर्म करोति, भृतकांश्च कारयति। भृतकानां चाकालपरिहीनां उचितां परिपूर्णां भृतिं । ६८५ (A) मूल्यं ददाति, अकालपरिहीनं च परिपूर्णं भक्तम्। एवं च तस्य व्याप्रियमाणस्य कृषेः परिवृद्धिरजायत साधुवादश्च ॥ १३९१ ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy