SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ श्री व्यवहार सूत्रम् तृतीय | उद्देशकः ६८३ (B) पूज्यमाने आचार्ये पूजकैरागमः बहुमानितः बहुमानविषयीकृतो भवति। आगमस्य तत्रस्थत्वात्। तथा भगवतामर्हतामाज्ञा परिपालिता भवति। भगवतां हि तीर्थकृतामियमाज्ञायदुत गुरोः सदा पूजा कर्तव्या। तथा चोक्तम् जहाऽऽहियग्गी जलणं नमसे, नाणाहुती-मंतपयाभिसित्तं । एवाऽऽयरियं उवचिट्ठएज्जा अणंतणाणोवगतो वि संतो ॥ [द.वै.अ.९ उ.१.गा.११] तथा गुरुविनयकरणेन ये नाद्यापि भावितास्तेष्वभावितेषु क्रियमाणपूजादर्शनतः स्थिरत्वमुपजायते। तथा वैनयिकीर्विनयनिमित्ता विनिर्जरा कर्मनिर्जरणं नित्यं सदा सततं भवति, गुरुविनयस्य सदा कर्तव्यत्वात्। तथा मानस्य अहङ्कारस्य भङ्गोऽपि च कृतो ||१३८२-१३८६ गणधारकस्य भवति। एते पूजकानां गुणाः ॥ १३८६ ॥ पूजनादिः सम्प्रति निर्जरार्थमेव गणधारणं व्यवसितस्य पूजामपीच्छतः आचार्यस्य दोषाभावे ६८३ (B) यस्तडागदृष्टान्तस्तं संभावयति। गाथा For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy