SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय उद्देशकः ६८३ (A) सुत्तेण अत्थेण य उत्तमो उ, आगाढपण्णेसु य भावियप्पा। जच्चन्निओ यावि विसुद्धभावो, संते गुणेवं पविकत्थयंते॥ १३८५ ॥ सूत्रेणार्थेन च एष उत्तमः प्रधानः, परिपूर्णस्य सूत्रस्यार्थस्य चावदातस्यास्य सम्भवात् । तथा आगाढा प्रज्ञा येषु शास्त्रेषु व्याप्रियते, न या काचन, तान्यागाढप्रज्ञानि शास्त्राणि तेषु भावितात्मा, तात्पर्यग्राहितया तत्रातीवनिष्पन्नमतिरिति भावः। तथा जात्या- सकलजनप्रशस्ययाऽन्वितः- युक्तो जात्यान्वितः। तथा विशुद्धः स्व-परसंसारनिस्तारणैकतानतया अवदातो भाव:-अभिप्रायो यस्य स विशुद्धभावः, एवं सतो गुणान् गणधारिणः शिष्या अपरे च प्रकर्षतो हर्षातिरेकलक्षणतो विकत्थयन्ते श्लाघन्ते। ॥ १३८५ ॥ गाथा एवं च पूज्यमाने आचार्ये पूजकानां यो गुणस्तमुपदर्शयति १३८२-१३८६ गणधारकस्य आगम एवं बहुमाणितो उ, आणा थिरत्तं च अभावितेसु। पूजनादिः विणिज्जरावेणइया य निच्चं, माणस्स भंगो वि य पुजयंते ॥ १३८६ ॥ * ६८३ (A) १. आगाढप्रज्ञः श्रुतभावितात्मा च इति विशेषणद्वयमपि संभाव्यतेऽतिः। For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy