________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् तृतीय उद्देशकः
६७१ (A)
स्थापनीयो गणधरपदे, नेतर इति। यश्चैतद्गुणविप्रहीणः प्रतिबोधादिगुणविकलो यश्च द्रव्यतो भावतश्च अपरिछन्नः परिच्छदहीनः स गणं न धारयेत्। न स गणधरपदे स्थापनीय इति भावः ॥ १३५७॥
दोहि वि अपलिच्छन्ने, एक्कक्केणं व अपलिच्छन्ने य। आहरणा होंति इमे, भिक्खूमि गणधरंतम्मि ॥ १३५८ ॥
द्रव्यतोऽपरिच्छन्नो भावतश्चापरिच्छन्न इत्यादि चतुर्भङ्गी प्रागेवोपदर्शिता। तत्र भिक्षौ गणं धारयति द्वाभ्यामपि द्रव्यतो भावतश्चेत्यर्थः अपरिच्छन्ने परिच्छदरहिते, अनेन प्रथमभङ्ग उपात्तः। एकैकेन वा अपरिच्छन्ने भावतोऽपरिच्छन्ने द्वितीयभङ्गवर्तिनि, द्रव्यतोऽपरिच्छन्ने ||१३५६-१३६० तृतीयभङ्गवर्तिनि इमानि वक्ष्यमाणानि आहरणानि उदाहरणानि भवन्ति ॥ १३५८ ॥
गणधारण
योग्याऽयोग्ये तान्येवाह
दृष्टान्ताः भिक्खू कुमार,वियरय, झामण२ पंती३ सियालरायाणो४।
६७१ (A) वित्तत्थजुद्धअसती ५, दमग६ भयग-दामगाईया७ ॥ १३५९ ॥
गाथा
For Private and Personal Use Only