SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . व्यवहारसूत्रम् तृतीय उद्देशकः ६७० (B) श्रीगृहिकदृष्टान्तभावना- यथा यो रत्नानि सुनिरीक्षितानि करोति स श्रीगृहे नियुज्यते, एवं यो ज्ञानादीनामात्म- संयमयोश्चाविराधनया गणं परिवर्धयति स तादृशो गणस्य नेता कर्तव्य:३। निर्यामकदृष्टान्तभावना- यथा निर्यामकस्तथाकथञ्चनापि प्रवहणं वाहयति यथा क्षिप्रमविघ्नेन समुद्रस्य पारमुपगच्छति, एष एव च तत्त्वतो निर्यामक उच्यते, शेषो नामधारकः । एवं य आचार्यस्तथाकथञ्चनापि गच्छं परिवर्धयति यथा क्षिप्रमविघ्नेनात्मानं च गच्छं च संसारसमुद्रस्य पारं नयति, स तत्त्वतो गणधरः, शेषो वै नाममात्रपरितुष्टः ४। महागोपदृष्टान्तभावना-यो गोपो गाः श्वापदेषु विषमेषु वा प्रदेशेष्वटव्यां वा पतन्तीरियति, वारयित्वा च क्षेमेण स्वस्थानमानयति स महागोप उच्यते, एवमाचार्योऽपि यो गणमस्थानेषु प्रत्यन्तदेशादिषु विहारिणं || वारयति पूर्वाभ्यासप्रवृत्तानि च प्रमादस्खलितान्यपनयति स तादृशो गणपरिवर्धक: करणीयः |१३५६-१३६० गणधारण न शेष: ५। अथवा प्रतिबोधको नाम गृहचिन्तक उच्यते, यो गृहं चिन्तयन् यो यत्र योग्यस्तं योग्याऽयोग्ये तत्र व्यापारयति, तत्र व्याप्रियमाणं च प्रमादतः स्खलन्तं निवारयति स गृहचिन्तक उच्यते। दृष्टान्ताः एवं यः स्थापितो यो यत्र योग्यस्तं तत्र नियुङ्क्ते। नियुक्तांश्च प्रमादतः स्खलतः शिक्षयति स ६७० (B) | १. सुरक्षितानि - खं ॥ गाथा For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy