SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार-14 सूत्रम् द्वितीय उद्देशकः ६५६ (B) परिमिय असति अन्नेसो, वि य परिभायणम्मि कुसलो उ। उच्छूर-पउरलंभे, अगीयवामोहणनिमित्तं ॥ १३२८ ॥ तवसोसीयमझोवातओ य तब्भावितो भवे अहवा। थेरा नाऊणेवं , वदंति भाएहि तं अज्जो ॥ १३२९ ॥ इह यद्दानमनुप्रदानं वा परिभाजनमुच्यते तच्च यथा सम्भवति तथोपपाद्यते-साधुभिः सर्वैस्तपोविशेषप्रतिपन्नवर्जितैरेकत्र मण्डल्यां भोक्तव्यम्। किं कारणम्? इति चेत्, उच्यतेइह द्विविधा साधवः, लब्धिमन्तो लब्धिरहिताश्च। तत्र ये लब्धिरहितास्ते बहिर्गतास्तथाविधं प्रायोग्यं न लभन्ते, मण्डल्यां तूपविष्टानां लब्धिमत्साधुसङ्घाटकानीतपरिभाजनेन तेषामन्येषामपि च बाल-शैक्ष-वृद्ध-ग्लानादीनां प्रायोग्यं भवतीति तेषामनुग्रहाय मण्डलीबन्धकरणम्, मण्डलीबन्धे च कृते कस्यचिदजीर्णं भवति, कस्यचिद् जीर्णम्। जीर्णेऽपि च कोऽपि काश्चिद् विकृतीर्भुङ्क्ते, न सर्वाः,ततः प्रचुरविकृतिलाभे सर्वजनानुग्रहाय परिभाजनं क्रियते। तत्र स परिहारकल्पस्थितो भिक्षुः तपःशोषितः तप:शोषितशरीर इति तस्य विकृतिविषये अध्युपपातः श्रद्धा जाता। अथवा पूर्वं सदैव तस्यां विकृतौ भावित इति गाथा १३२७-१३३१ परिहारिकाय भोजनदानम् ६५६ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy