SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६५७ (A) तद्भावनया तस्यामध्युपपातो जातः, तत एतत्स्थविरा ज्ञात्वा तदनुग्रहाय परिमिते विकृतिलाभेऽसति असन् अविद्यमानोऽन्यः परिभाजनकुशलो यः सर्वेषामौचित्येनाऽऽपूरयति, सोऽपि च परिहारकल्पस्थितः परिभाजने कुशल इति सर्वसाधूनां वचनेन प्रकाश्यैवं वदति- अहो आर्य ! गाथायामोकारान्तता प्राकृतलक्षणवशात्, त्वमेतेभ्यः साधुभ्यः परिभाजय, यदि पुनः उच्छूरं नानाविधं प्रचूरमतिप्रभूतं घृतादिलब्धं भवति तदा उच्छूरप्रचूरलाभे अगीतव्यामोहननिमित्तं अगीतार्था मा विपरिणमन्तु इति यद्वा तद्वा कारणं वचसा प्रकाश्य तद्व्यामोहननिमित्तमेवं ब्रुवते- आर्य! त्वं साधुभ्यः परिभाजय॥ १३२८ ॥ १३२९ ॥ परिभाइय संसढे १, जो हत्थं संलिहावए परेण २। फुसइ व कुड्डे३ छड्डे४, अणणुण्णाए भवे लहुओ ५॥ १३३० ॥ आचार्योपदेशेन परिभाजिते सति तस्य हस्तः संसृष्टो घृतादिना लिप्तो भवति, तस्मिन् | संसृष्टे यदि तथैव संसृष्टेन हस्तेनावतिष्ठते तर्हि प्रायश्चित्तं मासलघु १, यो वा हस्तं परेण संलेहापयति तस्यापि प्रायश्चित्तं मासलघु २। अथवा कुड्ये हस्तं स्पृशति तदापि मासलघु ३, अथवा काष्ठेन निघृष्य छर्दयति तत्रापि मासलघु४ । अथवाऽननुज्ञातः सन् स्वयं लेढि गाथा १३२७-१३३१ परिहारिकाय भोजनदानम् ६५७ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy