SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६५६ (A) व्यासार्थं तु भाष्यकृद् विवक्षुः प्रथमतः सामान्यत आह- सुत्तेणेवेत्यादि, सूत्रेणैव . दाने अनुप्रदाने च प्रथमतो निषिद्धे तदनन्तरं तेनैव सूत्रेण दाने अनुप्रदाने च भवत्यनुज्ञा ॥ १३२६ ॥ एवं सक्षेपतः सूत्रार्थे कथिते सत्याह-- किह तस्स दाउ किज्जइ? चोयग! सुत्तं तु होइ कारणियं। सो दुब्बलो गिलायइ, तस्स उवाएण दिंतेवं ॥ १३२७ ॥ किह कथं केन प्रकारेण तस्य परिहारकल्पस्थितस्य भिक्षोर्दातुं क्रियतेऽशनादिकम् ? | तद्दानकरणस्य तत्कल्पविरुद्धत्वात्। अत्र सूरिराह-हे चोदक! सूत्रमिदं भवति कारणिकं कारणेन निर्वृत्तं कारणिकं, कारणमधिकृत्य प्रवृत्तमित्यर्थः। तदेव कारणमाह सो दुब्वलो इत्यादि, स: परिहारकल्पस्थितो भिक्षुर्दुर्बल: तप:शोषितशरीरत्वादत एव पदे पदे ग्लायति। ततस्तस्यानुकम्पनार्थमेवमनेनोपायेन दाना-ऽनुप्रदानकारापणलक्षणेन विकृतिं स्थविरा ददति प्रयच्छन्ति । तत एषाऽपि परिहारकल्पसामाचारीति न कश्चिद्दोषः ॥ १३२७ ॥ सम्प्रति यथा तस्य दानमनुप्रदानं वा करणीयं भवति येन च कारणेन स्थविरा अनुजानते तदेतदभिधित्सुराह गाथा १३२७-१३३१ परिहारिकाय भोजनदानम् ६५६ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy