SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६४२ (B) बहिर्भावो बहिर्भावाऽध्यवसायो भवति। तथाहि- योऽसौ स्थापित आचार्यः स | गच्छवर्तिनः साधन समस्तानपि परकीयान्मन्यते। साधवोऽपि च गच्छवर्तिनस्तं परमभिमन्यते। एवं परस्परं बहिर्भावाध्यवसाये सति स्थापितस्याऽऽचार्यस्य गच्छवर्तिनां च साधूनामनाभाव्यानि सचित्तादीनि गृह्णतां नियमाद् भण्डनं कलहो भवति। तथा च सति प्रवचनोडाहः प्राक्कल्पव्यावर्णितप्रायश्चित्तापत्तिश्च,अन्यच्च गच्छवर्तिनस्ते साधवो मन्यन्तेसुचिरेणापि प्रभूतेनापि कालेन गच्छता नास्माकमेष परकीयत्वात्, उपलक्षणमेतत्, सोऽप्यभिमन्यते सुचिरेणाप्येते परकीया इत्येवं परस्परमध्यवसायभावतो गणस्य गच्छस्य भेदो भवति। तस्मादित्वरो यावत्कथिको वा प्रथमभङ्गवर्ती स्थापयितव्यः ॥ १२९२ ।। अत्रैवापवादमाहअन्नयरतिगिच्छाए, पढमाऽसति तइयभंगमित्तरियं। तइयस्सेव य असई, बितितो तस्सासति चउत्थो ॥ १२९३॥ अन्यतरचिकित्सायां मोहचिकित्सायां रोगचिकित्सायां वाऽऽचार्यमित्वरम्, उप- /* गाथा १२९१-१२९५ पदस्थापने अपवादाः ६४२ (B) १. पढमस्सेव - जेभा. खंभा. । तइयस्सेव जे. भा. पाठान्तरम् ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy