SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५९८ (B) यस्तव दासत्वमापन्नो वर्तते, न सोऽहं, किन्त्वहमन्यस्मिन् विदेशे जातः, त्वं तु सदृक्षतया विप्रलब्धोऽसि। अथ स प्रभूतजनविदितो वर्तते तत एवं न वक्तव्यं, किन्तु | स्थापत्यापुत्राद्युदाहरणं कथनीयम्। यदि कदाचित्तत्श्रवणतः प्रतिबुद्धो मुत्कलयति। आदिशब्दात् गुटिकाप्रयोगतः स्वरभेदादि कर्तव्यमिति परिग्रहः, एतेषां प्रयोगाणामभावे विद्या मन्त्रो योगा वा ते प्रयोक्तव्याः, यैः परिगृहीतः सन् मुत्कलयति, तेषामप्यभावे निमित्तेनाऽतीताऽनागतविषयेण राजा, उपलक्षणमेतदन्यो वा नगरप्रधान आवर्जनीयः, येन तत्प्रभावात् स प्रेर्यते धर्मो वा कथनीयो राजादीनां, येन ते आवृत्ताः सन्तस्तं प्रेरयन्ति। एतस्यापि प्रयोगस्याभावे पाषण्डान् सहायान् कुर्याद्, यद्वा यो गण: सारस्वतादिको | बलीयान् तं सहायं कुर्यात्। तदभावे दूराभोगादिना प्रकारेण धनमुत्पाद्य तेन मोचयेत् , एष द्वारगाथासंक्षेपार्थः ॥११७५॥ गाथा ११७४-११७८ अर्थजात प्ररूपणा ५९८ (B) १. व्याः, येन तैरभियोजितः सन् - वा. मो. पु. ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy