SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५९४ (B) चेडोऽनाद्रियमाणोऽन्यत्रान्यत्र घोलयति परिभ्रमति। स च तथा परिभ्रमन् कस्यापि गृहे दासत्वमापन्नः। तस्य च पितुर्यथाविहारक्रमं विहरतस्तस्यामेव मथुरायामागमनं जातम् । तेन च सर्वं तद् ज्ञातम् ।।११६४।। सम्प्रति तन्मोचने विधिमभिधित्सुराह अणुसासकहणठवियं,३ भीसण ववहार,लिंग जं जत्थ६ । दूराभोगगवेसण,७ पंथे जयणा जा जत्थ८ ॥ ११६५॥ [बृ.क.भा.६२९३] पूर्वमनुशासनं तस्य कर्तव्यम् १। ततो धर्मकथाप्रसङ्गेन कथनं स्थापत्यापुत्रादेः करणीयम् २। एवमप्यतिष्ठति यनिष्क्रामता स्थापितं द्रव्यं तद् गृहीत्वा समर्पणीयम् ३, तस्याभावे निजकानां तस्य वा भीषणमुत्पादनीयम्४, यदि वा राजकुले गत्वा व्यवहार: कार्य: ५। एवमप्यतिष्ठति यद् यत्र लिङ्गं पूज्यं तत् तत्र परिगृह्य स मोचनीयः ६। एतस्यापि प्रयोगस्याभावे दूरेण उच्छिन्नस्वामिकतया दूरदेशव्यवधानेन वा यन्निधानं तस्याऽऽभोगः कर्तव्यः । तदनन्तरं तस्य गवेषणं साक्षानिरीक्षणं करणीयं, गवेषणाय च गमने पथि मार्गे यतना यथा ओघनिर्युक्तावुक्ता तथा कर्तव्या। या च यत्र यतना सापि तत्र विधेया यथासूत्रमिति द्वारगाथासक्षेपार्थः ॥११६५॥ गाथा ११६२-११६९ अर्थजाते उदाहरणम् ५९४ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy