SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् द्वितीय उद्देशकः ५६७ (B) च शरीरस्योदन्तं वहन्ति, यदि पुनः सम्बन्धिनः स्वजना वदेयुर्वयमौषधानि वैद्यं वा । सम्प्रयच्छामः, परमस्माकमासन्ने प्रदेशे स्थित्वा यूयं प्रतिचरथ, तत्र यदि शोभनो भावस्तदैवं क्रियते। अथ गृहस्थीकरणाय तेषां भावः तदा न तत्र नयनं, किन्तु स्वोपाश्रय एव ध्रियते। तत्र च त्रिष्वपि आहारोपधिशय्यास यतना कर्तव्या। एष द्वारगाथासक्षेपार्थः ॥१०८४॥ साम्प्रतमेनामेव विवरीषुः प्रथमतः 'रण्णो निवेइयम्मी' त्येतद्व्याख्यानयति पुत्तादीणं किरियं, सयमेव घरम्मि कोइ कारेजा। अणुजाणंते य तहिं, इमे वि गंतुं पडिचरंति ॥ १०८५ ॥ [बृ.क.भा. ६२२०] यदि कोऽपि राजा अन्यो वा तस्य क्षिप्तचित्तस्य साधोः स्वजनो गृहे स्वयमेव साधुनिवेदनात् प्राग् आत्मनैव पुत्रादीनां क्रियां चिकित्सां कारयति, तदा तस्मै निवेदिते 'युष्मदीयः क्षिप्तचित्तो जातः' इति कथिते यदि ते अनुजानन्ति, यथा- तमत्र समानयतेति, ततः स तत्र नीयते, नीतं च सन्तम् इमेऽपि गच्छवासिनः साधवोऽपि गत्वा प्रतिचरन्ति ॥१०८५॥ गाथा १०८२-१०८५ क्षिप्तचित्ते यतना ५६७ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy