SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५६७ (A) ते साधवः परिश्रान्ता भूयस्तरकं प्रतिचरणं नेच्छन्ति ततस्तेष्वनिच्छत्सु कुल-गणसङ्घसमवायं कृत्वा पूर्वगमेन कल्पोक्तप्रकारेण तस्मै निवेदनीयम्, निवेद्य च तदाज्ञया वर्तितव्यमिति ॥१०८३॥ अथ स साधुः कदाचिद्राजादीनां स्वजनः स्यात् तत इयं यतना विधेयारण्णो निवेइयम्मि, तेसिं वयणे गवेसणा होति। ओसह वेज्जा संबंधुवस्सए तीसु वी जयणा ॥ १०८४ ॥ [बृ.क.भा. ६२१९] यदि राज्ञोऽन्येषां वा स पुत्रादिको भवेत् ततो राज्ञः, उपलक्षणमेतत्, अन्येषां वा स्वजनानां निवेदनं क्रियते, यथा- युष्मदीय एष पुत्रादिकः क्षिप्तचित्तो जात इति एवं निवेदिते यदि ब्रुवते राजादयो यथा- मम पुत्रादीनां क्रिया स्वयमेव क्रियमाणा वर्तते, तत इहैव तमप्यानयतेति। ततः स तेषां वचनेन तत्र नीयते,नीतस्य च तस्य तत्र गवेषणा भवति। अयमत्र भावार्थ:- साधवोऽपि तत्र गत्वा औषध-भेषजानि प्रयच्छन्ति, प्रतिदिवसं गाथा |१०८२-१०८५ क्षिप्तचित्ते यतना ५६७ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy