SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५५५ (A) व्यवहारं मासपरिमाणमष्टमेन वहति। तथा गुरुतरकं चतुर्मासप्रमाणं व्यवहारं दशमं कुर्वन् पूरयति, दशमेन वहतीत्यर्थः। यथागुरुकं षण्मासप्रमाणं व्यवहारं द्वादशकं कुर्वन्, द्वादशमेनेत्यर्थः, पूरयति । एषा गुरुकपक्षे गुरुकव्यवहारपूरणविषये तप:प्रतिपत्तिः ॥ १०५२ ॥ छटुं च चउत्थं वा, आयंबिल एगट्ठाण पुरिमटुं। निव्वीयं दायव्वं, अहार्लहुस्सम्मि सुद्धो वा ॥ १०५३ ॥ [ब.क.भा. ६२४०] लघुकं व्यवहारं त्रिंशद्दिनपरिमाणं षष्ठं कुर्वन् पूरयति। लघुतरकं पञ्चविंशतिदिवसपरिमाणं व्यवहारं चतुर्थं कुर्वन्, यथालघुकं व्यवहारं विंशतिदिवसमानमाचाम्लं कुर्वन्, एषा लघुकत्रिविधव्यवहारपूरणे तपःप्रतिपत्तिः। तथा लघुस्वकव्यवहारं पञ्चदशदिवसपरिमाणमेकस्थानकं कुर्वन् पूरयति। लघुस्वतरकव्यवहारं दशदिवसपरिमाणं पूर्वार्धं | कुर्वन्, यथालघुस्वकव्यवहारं पञ्चदिनपरिमाणं निर्विकृतिकं कुर्वन् पूरयति। तत एतेषु ।। गुरुक-गुरुतरकादिषु व्यवहारेष्वनेनैव क्रमेण तपो दातव्यं, यदि वा यथालघुस्वके | सूत्र ७ गाथा १०५०-१०५४ ग्नानऽऽलोचकं प्रति व्यवहारः ५५५ (A) १. लहुसगम्मि-भाष्ये । २. लघुक स्वभावव्य' वा. मो. पु. ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy