SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ९० (A) भूयो व्याख्यायन्ते ॥ १५४॥ तदेवम् 'अभिधेयाऽभेदतो नास्ति विशेषः [गा.१५२] इति यदुक्तं तद् असिद्धमिति प्रतिपादितम्,अभिधेयभेदस्य दर्शितत्वाद्, यत्पुनरुच्यतेअभिधानाभेदतो नास्ति विशेषः [गा.१५२] इति तद् 'अनैकान्तिकम्' इति दर्शयति नाणत्तं दिस्सए अत्थे, अभिन्ने वंजणम्मि वि । वंजणस्स य भेदम्मि, कोइ अत्थो न भिज्जइ ॥ १५५ ॥ व्यज्यते-प्रकटीक्रियते अर्थोऽनेन प्रदीपेनेव घट इति व्यञ्जनं शब्दः, तस्मिन्, अपिशब्दो भिन्नक्रमः, स चैवं योजनीयः अभिन्नेपि एकरूपेपि व्यञ्जने अर्थे अर्थविषये नानात्वं दृश्यते । यथा- सैन्धव इत्युक्ते तत्तत्प्रस्तावादिना अश्व-लवण-वस्त्राद्यर्थनानात्वम्। तथा व्यञ्जनस्य शब्दस्य भेदेपि चशब्दोऽपिशब्दार्थो भिन्नक्रमश्चेत्यत्र सम्बध्यते। कश्चिदर्थो न भिद्यते, यथा-खं व्योम आकाशमिति। कस्मादेवं शब्दाभेदेऽपि अर्थनानात्वम् इति अर्थाऽभेदेपि च शब्दनानात्वमिति चेत्? उच्यते-शब्दाऽर्थयोर्भेदाऽभेदविषये चतुर्भङ्गिकाया भावात्, तथाहि- अर्थस्याप्यभेदः शब्दस्याप्यभेद इति प्रथमो भगः१, अर्थस्याऽभेदः शब्दस्य भेद इति द्वितीयः२, अर्थस्य भेदः शब्दस्याऽभेदः इति तृतीय:३, अर्थस्य भेदः १. भिज्जए - वा. मो० पु० मु. ॥ गाथा १५५-१५९ व्यवहारस्य नामादिभेदाः ९० (A) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy