SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् पीठिका ८९ (B) दानव्यवहारे प्रवर्त्तितानि। कानीत्यत आह- मूलगुणे चेव उत्तरगुणे य इति “विषयेण | विषयिण उपलक्षणात्' मूलगुणापराधप्रायश्चित्तानि उत्तरगुणापराधप्रायश्चित्तानि । व्यवहारे व्यवहाराध्ययने पुनर्व्यवहृतानि दानव्यवहारविषयीकृतानि। किमुक्तं भवति?- कल्पाध्ययने मूलगुणापराधे वा उत्तरगुणापराधे वा आभवन्ति प्रायश्चित्तान्युक्तानि, अस्मिंस्तु व्यवहाराध्ययने तेषामाभवतां प्रायश्चित्तानां दानमुक्तमिति। यानि च कल्पाध्ययने आभवन्ति प्रायश्चित्तानि नोक्तानि तानि व्यवहारेऽभिधीयन्ते, तेषां दानं च ॥१५३ ॥ किञ्च अविसेसियं च कप्पे, इहइं तु विसेसियं इमं चउहा । पडिसेवण संजोयण आरोवण कुंचियं चेव ॥ १५४ ॥ चः समुच्चये, अन्यच्चेत्यर्थः । कल्पे कल्पाध्ययने प्रायश्चित्तमविशेषितं विशेषरहितमुक्तम्। इहइं तुत्ति इ: पादपूरणे, सानुस्वारता पूर्ववत्, तुः पुनरर्थे, इह व्यवहाराध्ययने | पुनरिदं प्रायश्चित्तं चतुर्द्धा चतुर्भिः प्रकारैर्विशेषितम्। तानेव प्रकारानाह- प्रतिसेवनं | संयोजनमारोपणं कुञ्चनमिति प्रतिकुञ्चनम्। एतानि अनन्तरमेव सप्रपञ्चं व्याख्यातानीति न | १. विषयिणो लक्ष० वा. मो० पु० मु. ॥ २. आरुवणाऽऽकुंचियं-तिसृष्वपि- भाष्यप्रतिषु ॥ गाथा १५०-१५४ कल्पव्यवहारयोर्विशेषः ८९ (B) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy