SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका ९० (B) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शब्दस्य भेदः इति चतुर्थः ४ ॥ १५५ ॥ एतेष्वेव चतुर्षु भङ्गकेषु क्रमेणोदाहरणान्युपदर्शयति पढमो इंद इंदोत्ति, बिइयओ होइ इंद सक्कोत्ति । तइओ गो भू-पसुरस्सिणो त्ति चरमो घडपडो त्ति ॥ १५६ ॥ प्रथमो भङ्गोऽर्थाभेदः शब्दाऽभेदः इत्येवंरूपः यथा इन्द्र इन्द्र इति । तथाहि - एकेनापि इन्द्र इत्युक्तं द्वितीयेनापि इन्द्र इति, अत्र च द्वयोरपि शब्दयोः स्वरूपाऽभेदोऽर्थाभेदश्च १ । द्वितीयोऽर्थाभेदः शब्दस्य भेद इतिरूपः यथा - इन्द्रः शक्र इति, अत्र हि शब्दस्य नानात्वमर्थस्त्वभिन्न एव द्वयोरप्येकार्थिकत्वात् २। तृतीयोऽर्थस्यभेदः शब्दस्याऽभेद इत्येवंलक्षणो यथा भू-पशु-रश्मिषु पुरुषभेदेन कालभेदेन वा प्रयुज्यमाना गोशब्दाः, अत्र हि गौरिति सर्वत्राप्यभिन्नं रूपं, अर्थस्तु भिन्न इति३ । चरमो यथा घटः पट इति, अत्र हि द्वयोरपि शब्दयोः रूपभेदोऽप्यस्ति अर्थभेदोऽपि ४ । तत उपपद्यते शब्दाभेदेऽपि अर्थनानात्वमर्थाभेदेऽपि शब्दनानात्वं तेन यदुच्यते 'अभिधानाभेदतो नास्ति विशेष' इति तदनैकान्तिकमुपदर्शितम् । भू- पशु - रश्मिवाचिनां गोशब्दानामभिधानाभेदेप्यर्थविशेषदर्शनात् ९० (B) १. चरिमो - तिसृष्वपि भाष्यप्रतिषु ॥ For Private And Personal Use Only गाथा १५५-१५९ व्यवहारस्य नामादिभेदाः
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy