SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ७६ (B) यथा उदका तथा इति वचनाद् एवमत्र प्रतिपत्तव्यं- यथा उदकाट्टै उदकम्रक्षिते करे मात्रके वा भिक्षां गृह्णतः प्रायश्चित्तं लघुर्मासः तथा हरिताल-हिंगुलक-मन:शिलाः प्रतीताः, अञ्जनं सौवीराजनादि, लवणं सामुद्रादि, एते सचित्तपृथिवीकायभेदाः, उपलक्षणमेतत्, तेन शुद्धपृथिव्यूष-गेरु-वर्णिका-सेटिका-सौराष्ट्रिक्यादयोपि सचित्तपृथिवीकायभेदाः प्रतिपत्तव्याः । तथा मिश्रकः सचित्ताऽचित्तरूपः कर्दमादिहरितालादिपृथिवीकायः मिश्रकः पृथिवीकायः, एतेष्वपि। किमुक्तं भवति?- एतैरपि प्रत्येकं प्रक्षिते करे मात्रके वा भिक्षामाददानस्य लघुर्मासः। एतत्पुनः सम्प्रदायादवसातव्यम्- सचित्तमिश्रपृथिवीरजोगुण्डिते सचित्त-मिश्रोदकस्निग्धे वा करे मात्रके वा भिक्षामुपाददानस्य पञ्च रात्रिन्दिवानि। उक्तं च- 'ससणिद्धे ससरक्खे पणगं' इति। तथा वनस्पतिकायो द्विविधः परीत्तोऽनन्तकायश्च। एकैकस्य त्रयो भेदा:-पिष्टं कुकुस्सा: उत्कुटितं च। पिष्टं कुक्कुसाश्च प्रतीताः, उत्कुटितश्चिञ्चनकादिः, तत्र त्रिविधैरपि सचित्त-मिश्र-परीत्तवनस्पतिकायैः संस्पृष्टे करे मात्रके वा भिक्षां गृह्णतो लघुर्मासः अनन्तसचित्त-मिश्रवनस्पतिकायैस्त्रिविधैरपि संस्पृष्टे गुरुमासः। पुरःकर्मणि पश्चात्कर्मणि च केचिदाहुः लघुमासः, अपरे चत्वारो गाथा १२७-१२९ विविधानि प्रायश्चित्तानि ७६ (B) १. सनकादिः - वा. मो० पु० ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy