SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ७७ (A) लघवः । उक्तं च कल्पचूर्णी 'पुरकम्म-पच्छकम्मेहिं चउलहु' [ ] इति ॥ १२८ ॥ सज्झायस्स अकरणे, काउस्सग्गे तहा अपडिलेहा । पोसहिय-तवे य तहा, अवंदणये चेइयाणं च ॥ १२९ ॥ स्वाध्यायस्य वाचनादेरकरणे, सामान्यतो मासनिष्पन्नं प्रायश्चित्तमिति योगः । अत्रेयं भावना-सूत्रपौरुषीं यदि न करोति, ततो मासगुरुः प्रायश्चित्तम्, अर्थपौरुषीं न करोति मासलघु, द्वे सूत्रपौरुष्यावकुर्वतो द्वौ लघुमासौ, तिसृणां सूत्रपौरुषीणामकरणे त्रयो लघुमासाः, चतसृणामपि सूत्रपौरुषीणामकरणे चतुर्मासलघु। काउस्सग्गे इति, अकरणे इत्यत्राप्यनुवर्त्तते, आवश्यकप्रतिबद्धकायोत्सर्गस्य, सूत्रे सप्तमी, षष्ठी-सप्तम्योर) प्रत्यभेदात्, अकरणे सामान्यतो मासनिष्पन्नं प्रायश्चित्तमिति सर्वत्रापि योजनीयम्, भावना त्वत्रापीयम्आवश्यके एकं कायोत्सर्ग न करोति मासलघु, द्वौ न करोति द्विमासलघु, त्रीन् | कायोत्सर्गान्न करोति त्रिमासलघु, सकलमेवावश्यकं न करोति चतुर्मासलघु। तथा उपविष्टः | सुप्तो वा यद्यावश्यकं करोति, प्रावरणप्रावृतो वा, वन्दनकानि वा आवश्यके ददाति, १. मासलघु प्रा • वा • मो• पु.मु.॥ गाथा १२७-१२९ विविधानि प्रायश्चित्तानि ७७ (A) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy