________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पीठिका
७६ (A)
www.kobatirth.org
भङ्गेषु प्रायश्चित्तविधानं, सप्तमभङ्गे तु शुद्धः ॥ १२६ ॥ सम्प्रति लाघवमपेक्षमाणश्छेदार्हमपि प्रायश्चित्तमत्रैव विषये प्रतिपादयति
एएसिं अण्णयरं, निरंतरं अतिचरेज्ज तिक्खुत्तो । निक्कारणमगिलाणो, पंच उ राइंदिया छेदो ॥ १२७ ॥
एतेषामनन्तरोदितानां रात्रिन्दिवपञ्चकप्रायश्चित्तविषयाणां स्थानानामन्यतरत् स्थानमग्लानो निष्कारणं यदि निरन्तरमतिचरेत् त्रिःकृत्वः त्रीन् वारान् तदा तत्पर्यायस्य छेदः क्रियते पञ्चरात्रिन्दिवानि, उपलक्षणमेतत् येष्वनन्तरोदितेषु स्थानेषु मासलघुकानि प्रायश्चित्तान्युक्तानि तेषामन्यतरत् स्थानमग्लानो निष्कारणं यदि निरन्तरं त्रीन्वारानतिचरति तदा तत्पर्यायस्य छेदो मासिक इति द्रष्टव्यम् ॥ १२७ ॥ सम्प्रति मासिकानि प्रायश्चित्तानि बिभणिषुराह
हरियाले हिंगुलए, र्मणोसिला अंजणे य लोणे य । मीस पुढविक्काए, जह उदउल्ले तहा मासो ॥ १२८ ॥
१. मणोसिले वा० मो० पु० मु० ॥
-
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
गाथा
* १२७-१२९ विविधानि प्रायश्चित्तानि
७६ (A)