SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३८ ] पदार्थचन्द्रिकाटीकासहिता। २४९ अकम्पकारुण्यमुपेत्य मोदते स चम्पकारण्यमगण्यवैभवः ॥ ४६१॥ अत्र किल राजगोपालपादकमलमुपाश्रयतः साधुजनस्येत्थमनुसंधानम् ॥ १९५॥ कोपाटोपदशाविशालपरुषालापादिरूपाशुभ व्यापारग्लपितार्थिलोकहृदयैर्भूपालपाशैरकम् ॥ तापाविष्टसकृत्प्रपन्नजनमुक्त्यापादने दीक्षितम् पापानामपनोदनाय कुहनागोपालमेवाश्रये ॥ ४६२ ॥ कृ०--अत्रापि मे विरोध एव प्रतिभाति ॥ १९६ ॥ यतः न्यस्तपादः सुमनसां शीर्षेषु मधुहार्यहो! ॥ मुरारातिद्विरेफोऽपि चम्पकारण्यमाश्रितः ॥ ४६३ ॥ भी रुचिरासु सुन्दरासु कुटीषु लतागृहेषु यः गोपालः इति नाम्ना श्रुतः प्रसिद्धः सन् अचरत् बभ्राम, स एव भगवान् , सांप्रतमिति शेषः । अगण्यं संख्यातुमशक्यं वैभवमैश्वर्यं यस्य सः अचिन्त्यैश्वर्य इत्यर्थः । तथाभूतः सन् , अकम्पं निश्चलं शाश्वतमित्यर्थः । कारुण्यं यस्मिंस्तत्तथाभूतं चम्पकारण्यं नाम क्षेत्रं उपेत्य आगत्य मोदते क्रीडति ४६१ अत्रेति । अत्र चम्पकारण्यक्षेत्रे राजा त्रिलोक्यधिपतिश्चासौ गोपालश्च तस्य भगवतः पादकमलमुपाश्रयतो भजतः साधुजनस्य इत्थं वक्ष्यमाणप्रकारेण अनुसंधानम् ॥ १९५॥ कोपेति । कोपस्य क्रोधस्य आटोपदशायामतिशयावस्थायां ये विशाला बहुलाः परुषाः कठोराश्च आलापाः भाषणानि आदौ प्रथमतो येषु तद्रूपा ये अशुभाः दुष्टाः व्यापाराः कर्माणि तैलपितं दुःखाकृतं अर्थिलोकानां याचकजनानां हृदय. मन्तःकरणं यैस्तैः अत एव भूपालपाशैर्दुष्टनृपैः अलं पर्याप्तम् । न तेऽनु. सार्या इत्यर्थः । किंतु तापाविष्टानां आध्यात्मिकादितापतप्तानां अत एव सकृदेकवारमपि प्रपन्नानां जनानां मुक्त्यापादने मुक्तिसंपादने दीक्षितं गृहीतव्रतं कुहना गोपालं कपटगोपालवेषं भगवन्तं पापानां दुरितानामपनोदनाय निवारणार्थ आश्रय भजे ॥ ४६२॥ अत्रापीति । अत्र गोपालसवनेऽपि मे विरोध एव प्रतिभाति ॥ १९६॥ तमेवोपपादयति-न्यस्तपाद इति । सुमनसा देवानां पुष्पाणां च शीर्षेषु मस्तकेषु अग्रभागेषु च न्यस्तौ पादौ येन तथाभूतः सन् , मुरारा तिर्भुरनामकदैत्यशत्रुः विष्णुः द्विरेफोऽपि रेफद्वययुक्तो मुरारातिरिति शब्दः भ्रमरश्चापि मधुहारी मधु. १ 'साधुजनस्येदमित्थम्'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy