SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४८ विश्वगुणादर्शचम्पू:- [चंप० राजगो०यतोऽत्र-- मणिमयफणितल्पे मल्लिकापुञ्जकल्पे शमितजगदभद्रां संश्रयन्योगनिद्राम् ।। दहरकुहरवर्ती देवताचक्रवर्ती दलितरितबाणे दृश्यते कुम्भघोणे ॥ ४५९ ॥ अन्तर्नागरिकी जनतामवेक्ष्य सशिरःकम्पम्नात्वा सह्यसुताजले शुचितमा भूत्वा जपादिक्रमै र्तुत्वामौ च हविः कृतेतरगिरां कृत्वा च पारायणम् ।। नत्वा शार्ङ्गधरं भवामयहरं स्तुत्वा च तं भक्तितः श्रेष्ठाः कालममी क्षिपन्ति बहवः श्रीकुम्भघोणे द्विजाः ॥४६०॥ अथ चम्पकारण्यश्रीराजगोपालवर्णनम् ३८. इतश्च. कुटीषु गोपीरुचिरासु योऽर्कभूतटीषु गोपाल इति श्रुतोऽचरत् ॥ मणिमयेति । मलिकापुञ्जकल्पे मल्लिकाकुसुमराशितुल्ये तद्वन्मृदुनीत्यर्थः । मणिमयो रत्नप्रचुरः फणी शेष एव तल्पं शय्या तस्मिन् शमितं जगतो विश्वस्य अभद्रममङ्गलं यया तो योगः वृत्तिनिरोधरूपः समाधिः तद्रूपां निद्रां प्रलयकाले सर्वमात्मनि प्रविलाप्य स्वस्थस्थितिमिति यावत् । संश्रयन् | आश्रयन् सन्, किंच दहरमन्तराकाशस्तदेव कुहरं विवरं तद्वर्ती अन्तर्यामीत्यर्थः । देवतानां चक्रवर्ती श्रेष्टो भगवान् , दलितः भग्नः दुरितं पापमेव बाणः, (बाणवत् पीडाकरत्वात् ) येन तस्मिन् कुम्भघोणे नाम क्षेत्रे दृश्यते अवलोक्यते, जनैरिति शेषः ॥ ४५९ ॥ अन्तरिति । अन्तः पुरमध्ये नगरे भवा नागरिकी तां जनतां जनसमूहम् मात्वेति । श्रीकुम्भघोणे नगरे श्रेष्ठाः अमी बहवो द्विजाः ब्राह्मणाः सह्यसु. तायाः कावेर्याः जले स्नात्वा जप: गायत्र्यादिमन्त्राणामुपांशुपाठः आदिमुख्यो येषु तैः क्रमैः संध्यादिभिः कर्मक्रमरित्यर्थः । शुचितमाः पवित्रतरा भूत्वा, अग्नौ च हविघृतादिकं हुत्वा विधिवत् प्रक्षिप्य, कृतेतराः रचितभिन्नाः नित्याः या गिरः वाण्यः तासां, वेदवाचामित्यर्थः । पारायणं पठनं च ब्रह्मयज्ञसमये इत्यर्थः । कृत्वा, भवामयहरं संसाररोगहरं शार्ङ्गधरं विष्णुं नत्वा नमस्कृत्य तं विष्णु भगवन्तं च भक्तितः स्तुत्वा च कालं क्षिपन्ति निर्यापयन्ति ॥ ४६० ॥ कुटीविति । अर्कभुवः सूर्योत्पन्नायाः यमुनायाः तटीषु तीरेषु गोपीभिर्गोपस्त्री१ 'श्रुतश्चरन् । For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy