SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० विश्वगुणादर्शचम्पू:- [चम्पराजगो०वि०-विरुद्धानामपि सहावस्थितिसंपादके देवे वासुदेवे का नाम विरोधकथा ? ॥ १९७ ॥ यस्मिन्विलोचनतया सह पुष्पवन्तौ पर्यवाहनतया फणि-पक्षिराजौ ॥ तेजखिनौ प्रमुदितौ स्थितिमाश्रयेते तस्मिन्नहो भगवति क विरोधगन्धः ? ॥ ४६४ ॥ इति परिक्रम्यावलोक्य प्राञ्जलि:-- परिगतसहकारैः प्रांशुभिर्नारिकेलै दिनकरकरधारादुष्प्रवेशान्तरेभ्यः ॥ चुलकितदुरितेभ्यश्चोलदेशस्थितेभ्यो नम इदमखिलेभ्यो नाथदिव्यस्थलेभ्यः ॥ ४६५ ॥ नामकदैत्यविनाशकः मकरन्दहारकश्च चम्पकारण्यं नाम क्षेत्रं चम्पकवनं च आ. श्रितः । अहो इत्याश्चर्ये । तच्च चम्पक-भ्रमरयोः खभावविरोधित्वादिति भावः ॥४६३॥ __ अनुकूलमेवैतदस्मन्मतस्येति सूचयन्नाह-विरुद्धानामिति । विरुद्धानां निसर्गविरोधिनामपि सहावस्थितिः एकत्र सहवासः तस्याः संपादके निर्मातरि देवे भगवति वासुदेवे विरोधकथा विरोधवार्ता का नाम भवति ? ॥ १९७ ॥ यस्मिन्निति । यस्मिन् भगवति तेजस्विनौ विरुद्धशीतोष्णतेजोयुक्तौ पराक्रमयुक्तौ च प्रमुदितौ आनन्दयुक्तौ च पुष्पवन्तौ सूर्य-चन्द्रौ "एकयोक्त्या पुष्पवन्तौ दिवाकर-निशाकरौ।" इत्यमरः । विलोचनतया नेत्ररूपेण, फणिराजः शेषः पक्षिराजो गरुडश्च तौ, द्वन्द्वान्ते श्रूयमाणस्य प्रत्येकमभिसंबन्धात् राजशब्दस्योभयत्राप्यन्वयः। पर्यङ्कवाहनतया अत्रापि पूर्ववदेव । शयनतया वाहनतया चे. सर्थः । स्थितिं वासं सह युगपदेव आश्रयेते कुरुतः । तस्मिन् भगवति गोपाले, अहो हे कृशानो ! विरोधस्य गन्धः लेशोऽपि “गन्धो गन्धक आमादे लेशे संबन्धगर्वयोः ।" इति विश्वः । व अस्ति ? अपि तु नास्त्येव ॥ ४६४ ॥ एवं भगवन्तं गोपालं स्तुत्वा तत्रत्यभगवनिवासस्थानानि स्तौति-परिगतेति । परिगताः सर्वतः संगताः सहकारा आम्रवृक्षा येषु तैः प्रांशुभिरुन्नतैः नारिकेलेतालवृक्षैः दिनकरस्य सूर्यस्य कराणां किरणानां धारायाः दुष्प्रवेशं प्रवेष्टुमशक्यं अन्तरं मध्यभागो येषां तेभ्यः चुलुकितं विनाशितं दुरितं पापं यैस्तेभ्यः चोलदेशस्थितेभ्यः अखिलेभ्यः सर्वेभ्यः नाथस्य भगवतो गोपालस्य दिव्यस्थलेभ्यः दिव्यमन्दिरेभ्यः, इदं नमः तेभ्यो नमस्करोमीत्यर्थः ॥ ४६५ ॥ १ सहावस्थान'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy