SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२ उणादिकोषः । अङ्गरसिः॥ २३६ ॥ अङ्गिराः । २३६ ॥ सरप्पूर्वादसिः ॥ २३७ ॥ अप्सराः ॥ २३७॥ विदिभुजिभ्यां विश्वेऽसिः ॥ २३८ ॥ विश्ववेदाः । विश्वभोजाः ॥ २३८ ॥ वशेः कनसिः ॥ २३९ ॥ उशनाः । २३९ ॥ इत्युणादिषु चतुर्थः पादः ॥ ( २३६ ) अङ्गति प्राप्नोति जानाति वा स, अङ्गिराः । ईश्वरोऽमिषिभेदो वा । तस्यापत्यमाङ्गिरसः । असिप्रत्ययस्य रुडागमः ॥ ( २३० ) अपसरति विरुद्धं गच्छतीत्यसराः । उपसर्गानत्यलोपः । अथवाऽप्सु जलेषु प्राणेषु वा सरन्तीत्यपसरसः । किरणा वा । अथवा न प्सान्ति भक्षयन्ति रक्षां कुर्वन्तोत्यपसरसः । प्रत्ययस्य रुट । नित्यबहुवचनान्तः स्त्रीलिङ्गश्च ॥ - ( २३८ ) विश्वं सर्व वेत्ति जानातीति विश्ववेदाः । अगदीश्वरो वा। विश्वे विद्यते विश्वं वा विन्दति स विश्ववेदाः। अमि। विश्वं भुनक्ति। प्रलयसमये कारणरूपेण स्वात्मनि स्थापयति वा विश्वं पालयतीति विश्वभोजाः । ईश्वरो राजा वा ॥ (२३६ ) वष्टि कामयते स उशनाः । शुक्रवारी वा । सम्प्रसारणादिकार्यम् ॥ इत्युणादिव्याख्यायां वैदिकलौकिककोषे चतुर्थः पादः ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy