SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा०४॥ 489 चन्द्रे मो डित् ॥ २२८ ॥ चन्द्रमाः ॥ २२८॥ वयसि धात्रः ॥ २२९ ॥ वयोधाः ॥ २२९ ॥ पयसि च ॥ २३० ॥ पयोधाः ॥ २३० ॥ पुरसि च ॥ २३१ ॥ पुरोधाः २३१ ॥ पुरूरवाः ॥ २३२॥ चक्षेर्बहुलं शिश्च ॥ २३३ ॥ नृचक्षाः । २३३ ॥ उषः किञ्च ॥ २३४ ॥ उषः । २३४ ॥ दमेरुनसिः ॥ २३५ ॥ दमुनाः । २३५॥ ( २२८ ) चन्द्रमानन्दं मिमोते सौ चन्द्रमाः । सोमो वा । चन्द्रमसौ। चन्द्रमसः ॥ ( २२६ ) वयो दधातीति बयोधाः । तरुणी वा ॥ ( २३० ) धात्र इत्येव । पयो दधातीति पयोधाः। समुद्री वा । मेघविशेषः । स्तनो वा ॥ (२३१) धात्र इत्येवा पुरोऽग्रे यजमानं दधातीति पुरोधाः । पुरोहितो वा॥ ( २३२ ) पुरु बहुरौत्युपदिशति ब्रवीति वा स पुरूरवाः । राजर्षिर्वा ॥ ( २३३ ) विशेषेण चष्टेऽसौ विचक्षाः । उपाध्यायो वा । नून चष्टे पश्यति ख्याति वा स नृचक्षाः । ईश्वरो दुष्टी वा । शित्वाभावपक्षे । आचष्टेऽसौ । आख्याः । प्रख्याः । प्रजापतिर्वा ॥ ( २३४ ) असिः । ओपति दहतीतिउषः । कर्णछिद्रं । पर्वतभेदः । स्त्रियां सूर्योदयात्प्राक् प्रभातप्रकाशः। उषा वा । उषःकाले बुध्यत इत्युषर्बुधः । अमिबीलः । संयमी वा। कप्रत्ययान्ताटापि कृते । उषा रात्रिरित्याप भवति ॥ ( २३५ ) दाम्यत्युपशमयतीति दमुनाः । अग्निर्वा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy