________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० ४॥
१५६
मिथुने मनिः ॥१५२॥ सुशर्मा । सुधी ॥१५२॥ सातिभ्यां मनिन्मनिणौ १५३॥ साम । प्रात्मा ॥१५॥ हनिमशिभ्यां सिकन् ॥१५॥ हंसिका । मक्षिका ॥१५॥ कोररन् ॥ १५५ ॥ कवरः ॥ १५५॥ गिर उडच ॥ १५६ ॥ गरुडः ॥ १५६ ॥ इन्द: कमिन्नलोपश्च ।। १५७ ॥ इदम् ॥ १५७॥ कायतेर्डि मिः ॥ १५८ ॥ किम् ॥ १५८ ॥
-
( १५२) यत्रोपसर्गों धातुक्रियया सम्बदुस्तन् मिथुनम् । तस्मिन् सत्युक्तेभ्यो वक्ष्यमाणेभ्यश्च धातुभ्यो मनिः प्रत्ययः स्यान्नतु मनिन् । स्वरभेदार्थो नियमः । सुष्टु शृणातीति सुशमी । राजविशेषो वा । सुधरतीति सुधी । इत्यादि ॥
(१५३ ) स्यति कर्माणि समापयतीति सामवेदभेदी वा । अतति निरन्तरं कर्मफलानि प्राप्नोति व्याप्नोति वा स आत्मा । आत्मने हितमात्मनोनम् ॥
( १५४ ) हन्तीति हंसिका । हंसस्त्री वा। मशति शब्दयतीति रोषं करोति धा सा मक्षिका । प्रसिद्धा । आतिर्वा ।
(१५५ ) कौत्युपदिशतीति कबरः । पाटको का। केशविन्यासः कबरो । अन्यत्र कबरा कन्या पाठिकेत्यर्थः ॥
(१५६ ) गिरति निगलतीति गरुडः । पक्षिभेदो वा ॥
( १५० ) इन्दति परमेश्वर्य हेतुर्भवतीति, इदम् । प्रत्यविषयबोधकः सर्वनामसंज्ञको वा॥
(१५८ ) कार्यात शब्दयतीति किम् । प्रश्नाव्यर्थे वा ॥
For Private And Personal Use Only