SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८६ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादिकोषः ॥ तुषारादयश्च ॥ १३९ ॥ तुषारः । कासारः । सहारः । १३९ ।। दीङो नुट् च ॥ १४० ॥ दीनारः ॥ १४० ॥ सरपः षुक् च ॥ १४१ ॥ सर्षपः ॥ १४१ ॥ उषिकुटिदलिक चिखजिभ्यः कपन् ॥ १४२ ॥ उपपः । कुटपः । दलपः । कचपम् । खजपम् ॥ १४२ ॥ करोः 1: सम्प्रसारणञ्च ॥ १४३ ॥ कुणपम् ॥ १४३ ॥ कपश्चाक्रवर्मणस्य ॥ १४४ ॥ विटपविष्टपविशिपोलपाः ॥ १४५ ॥ ( १३६) यस्तुष्यति येन वा तत्त्वारम् । हिमं वा । कासते शब्दयति निन्दति वा स कासारः । सरसी वा । सहतीति सहारः । आम्रभेदो वा । तर्कयति भाषासौ तकारः । स्त्रियां गौरादित्वात् तर्कारी । जयन्ती विशेषता वा ॥ (१४०) दीयते चयति येन वा स दीनारः । सुवर्णाभरणं वा ॥ ( १४१ ) सरति गच्छति स सर्पपः । कटुस्नेहवान् वा ॥ (१४२) ओषति दहति स उषपः । अग्निः सूर्यो वा । कुटतीति कुटपः । मानभाण्डं वा । दालयति विदारयतीति दलपः । प्रहारो वा । कचते बधनातीति कचपम् । शाकपाचं वा। खजति मथ्नाति मय्यत इति खजपम् । घृतं वा ॥ ( १४३ ) ति शब्दं करोतीति कुणपः । शव मृद्भेदो वा ॥ ( १४४ ) चाक्रवर्मणस्य मते कपे सति प्रत्ययस्यादिरुदात्तः । अन्यमते सङ्घातस्यायुदात्तत्वम् ॥ ( १४५ ) कपप्रत्ययान्ता निपाताः वेटति शब्दयति वायुनेति विटपः । शाखाविस्तारो वा । विशन्ति यचेति विष्टपम् | भुवनं वा । त्रिविष्टपः । सुखविशेषभोगो वा । धातोर्वकारस्य पत्वम् । प्रत्ययस्य तुट् च । विविटप इति वा । विशन्ति यचेति विशिपम् । मन्दिरं वा । प्रत्ययादेरित्वम् । बलते संवृणोतीत्युलपम् । कोमलतृणं वा । धात्वादेः सम्प्रसारणम् ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy