SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा०३ कुवः क्ररन् ॥ १३३ ॥ कुररः । १३३ ।। अङ्गिमदिमन्दिभ्य आरन् ॥ १३४ ॥ अङ्गारः । मदारः । मन्दारः ॥ १३४॥ गडेः कड च ॥ १३५ ॥ कडारः । १३५॥ शृङ्गारभृङ्गारौ ॥ १३६ ॥ कोजमजिभ्यां चित्॥१३७॥कजारः ।मार्जारः। १३७॥ कमेः किदुचोपधायाः ॥ १३८ ॥ कुमारः ॥ १३८ । ( १३३ ) कौति शब्दयतोति कुररः । पक्षिभेदो वा । (१३४ ) अङ्गति गच्छति स अङ्गारः। निर्धूमोऽग्निभूमिविकारो वा । माद्यति मतो भवतीति मदारः । वराहो वा । मन्दते स्तोतीति मन्दारः। निम्बतरुरर्कवृक्षो वा । बाहुलकान्मन्दधातोरारुप्रत्ययोऽपि भवति । मन्दतेऽसौ मन्दारुः । निम्बार्को वा ॥ ( १३५ ) गडति सिञ्चतीति कडारः । पीतवर्णों वा ।। ( १३६ ) शृणाति हिनस्तोति शृङ्गारः । हस्तिशोभा नाट्यरसो दम्पत्योरन्योऽन्यं सम्भोगस्पृहा वा । अव धातार्नुम् हुस्वादेशश्च । बिभर्ति पुष्यतीति भृङ्गारः । सुवर्णपात्रविशेषो वा । स्त्रियां भृङ्गारो कोटजातिभेदो वा । झीगर इति प्रसिद्धः ॥ (१३७ ) कति रौतीति कजारः । मयूरो व्यञ्जनं वा । मार्टि शुन्धतीति मार्जारः । विडालो वा । स्त्रियां मार्जारी ।। (१३८ ) चिदनुवर्तते । कामते भोगानिति कुमारः । शिशुर्युवराजो वा । कुमारक्रीडायामित्यस्मादपि पचाद्यचि कृते कुमारशब्दा व्यत्पद्यते तदपायान्तरमर्थभेदश्च ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy