SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४ उमादिकोषः ॥ गण्डयन्तः । मण्डयन्तः । जयन्तः। नन्दयन्तः ॥ १२८ ॥ हन्तेर्मुद हि च ॥ १२९ ।। हेमन्तः ॥ १२९ ।। भन्देलोपश्च ॥ १३० ॥ भदन्तः । १३० ॥ ऋच्छेररः ॥ १३१ ॥ ऋच्छरः । १३१ ॥ अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित् ॥ १३२ ॥ अररः। कमरः । भ्रमरः । चमरः । देवरः । वासरः । १३२॥ गण्डति सेचयतीति गण्डयन्तः । मेघो वा। मण्डति शोभितं करोतीति मण्डयन्तः । भूषणं वा । जयतोति जयन्तो जयशीलः । स्त्रियां जयन्ती पुष्पभेदो वा । विजयन्तः कश्चिद्राजविशेषस्तस्य प्रासादो वैजयन्तः । वैजयन्ती पताका । नन्दन्ति येन स नन्दन्तः । आनन्द करो वा । अतः पूर्वसूत्रेऽपि नन्दिः पठितः । अच पुनर्ग्रहणमनाशिष्यपि यथा स्यात् ॥ ( १२६ ) यो हन्ति शीतेन स हेमन्तः । ऋतुभेदो वा ॥ ( १३० ) भन्दते कल्याणं करोतीति भदन्तः प्रजितो वा ॥ (१३१) ऋच्छति गच्छति स ऋच्छरः । ऋच्छरा वेश्या वा । बाहुलकातवदतीति वदरम्। वाः फलं वा। कन्दति वैकल्यं करोतीति कदरः श्वेतखदिरो वा। कपिलकादित्वाल्लत्वे गौरादित्वान डोष कदली। कदरी । वदरी। मन्दरकन्दरशीकरकोटरशवरसमरबर्बरबर्करकपरपिजराम्बराडम्बरजर्जरककरनखरतामरप्रभृतोऽपि-प्ररप्रत्ययान्ता बहुलवचनादेव साधनोयाः ॥ (१३२ ) ऋच्छति गच्छति यतः स अररः । कपाटो वा । कामयतेऽसौ कमरः । कामुको वा । भ्राम्यतीति भ्रमरः षट्पदः । कामुको वा । चमति भक्षयतीति चमरः । मृगभेदो वा । गौरादित्वात स्त्रियां डीए । चमरी सुरा गौः । चम- अयं चामरो बालसमूहः । दोव्यात क्रीडादिकं करोतोति देवरः । विधवाया द्वितीयः पतिः पत्युः कनिष्ठभ्राता । वासयतोति वासरः मङ्गलादिवारो वा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy