SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादिकोषः ॥ आप्नोतेईस्वश्च ॥ ५८ ॥ आपः ॥ ५८॥ परौ बजेः षश्च पदान्ते ॥ ५९ ॥ परिव्राट् ॥ ५९ ॥ हुवः श्लुवञ्च ॥ ६० ॥ जुहूः ॥ ६॥ सुवः कः ॥ ६१ ।। खुवः ।। ६१ ॥ चिक् च ॥ ६२ ॥ युक् ॥ ६२॥ तनोतेरनश्च वः ॥ ६३ ॥ त्वक् ॥ ६३ ॥ ग्लानुदिभ्यां डौ ॥६४॥ ग्लौः । नौः ॥ ६४॥ चिरव्ययम् ॥ ६५॥ (५८) आप्नुवन्ति शरीरमित्यापः । अस्य नित्यं बहुवचनत्वं स्त्रीत्वं च । अपः । अद्भिः । अद्भ्यः । इत्यादि । (५६) विप् । परितः सर्वतो वति स परिवाट । परिवाजी । परिवाजः । संन्यासी वा ॥ (६०) जुहोति ददायति वा यया सा जुहूः । सम्भेदो वा ॥ (११) सवति घृतमस्मात् स सुवः । यज्ञसाधनं वा। बहुलवचनातध्रुवति स्थिरं भवतीति ध्रुवम् । निश्चलं वा ॥ (६२) स धातोश्चिक प्रत्ययोऽपि भवति । घृतमस्याः सति सा सक । यज्ञीचितद्रव्यं वा ॥ (६३) तनोति विस्तृता भवतीति त्वक् । त्वचौ । त्वचः । शरीरावरणं चर्म वल्कलं वा ॥ (६४ ) ग्लायति हर्षक्षयं करोतीति ग्लौः । चन्द्रमा वा । नुदति प्रेरयतीति नौः । जलतरणसाधनं वा ॥ (६५) अवस्थ एजन्तप्रत्ययान्तश्च्च्यन्त एवाव्ययसंज्ञो भवति। एतेन नियमेनोणादीनां व्यत्यन्नपक्षे कृन्मेजन्त इत्यनेनाच्यन्तानामव्ययसज्ञा न भवति। अग्लौ ग्लौः संपयत इति ग्लौकरोति । ग्लो भवति ग्लो स्यात् । नौकरोति इत्यादि । ग्लौः। नौः। अत्र केवलानामव्ययसंज्ञाऽभावाद्विभक्तिलुङ्न भवति॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy