SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० २॥ ૨૧ तलिपुलिभ्यां च ॥ ५३ ।। तलिनम् । पुलिनम् ॥ ५३ ॥ गरत उच्च ॥ ५४ ॥ गुर्विणी ॥ ५४ ॥ रुहेश्च ॥ ५५ ॥ रोहिणः ॥ ५५॥ महेरिनण् च ॥ ५६ ॥ माहिनम् । महिनम् ॥ ५६ ॥ किब् वचिपच्छिश्रिखुद्रुघुज्वां दीर्घोऽसंप्रसारणं च ॥५७॥ वाक् । प्राट् । श्रीः । स्त्रः । द्रुः । कटप्रूः । जूः ॥ ५७ ॥ (५३) तालयति प्रतितिष्ठतीति तलिनम् । विरल पृथग्भूतं स्वल्पं स्वच्छं वा । पोलयति महान् भवतीति पुलिनम् । जलसामीप्यं वा ॥ ( ५४ ) गर्वति प्राप्नोति गर्वति मुञ्चति वा सा गुर्विणी गर्भिणी वा ॥ (५५) रोहति वीजेन जायते स रोहिणः । चन्दनवृक्षो वा । जातिवाचकात स्त्रियां डोष रोहिणी गौर्वा । प्रज्ञादित्वादण रौहिणः ॥ (५६ ) महति माते पूज्यते वा तन्माहिनं महिनम् । राज्यं वा । चादिनजनुवर्तते ॥ (५०) वक्ति शब्दानुच्चारयति यया सा वाक् । पृच्छतोति प्राट् । शब्द पृच्छतीति शब्दप्राट् शिष्यो वा । शब्दप्राशौ । शब्दप्राशः । छोः शूडनुनासिके चेति छस्य शः । अति श्रीयते वा सा श्रीः । ईश्वररचना शोभा वा । या सवति यस्या वा सा सः यज्ञसाधनं वा । द्रूयते प्राप्यते दुःखमनया सा दः । हिरण्यं वा। कटेन कटिभागेन प्रवते गच्छतोति कटप्रः । कामुको जनः कीटो वा । जति शीघ्र गच्छतीति जः । शशोऽश्वो वृषभ आकाशं विद्या वा । बाहुलकात-प्रवर्षन्ति मेघा यस्यां सा प्रावृट् । ऋतुः । द्वारयति संवृणोति यया सा द्वाः द्वारौ । उदकेन श्वयति वर्धते तत् उदवित् तकं वा । ऋचन्ति स्तुवन्ति यया सा ऋक् ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy