SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उगादिकोषः ॥ वृजेः किञ्च ॥ ४७ ॥ वृजिनम् ॥ १७ ॥ अर्जेरज च ॥ १८॥ अजिनम् ॥१८॥ बहुलमन्यत्रापि ॥ १९॥ द्रुदक्षिभ्यामिनन् ॥५०॥ द्रविणम् । दक्षिणः। दक्षिणा ॥५०॥ अर्तेः किरिश्च ॥ ५१ ॥ इरिणम् ॥ ५१ ॥ वेपितुह्योईस्वश्च ॥ ५२ ॥ विपिनम् । तुाहनम् ॥ ५२ ।। ( ४७ ) इनच कित् । वृक्ते वर्जयतीति वृजिनः केशः पापं वक्रो वा ।। (४८) अजति गच्छति क्षिपति वा । तत अजिनम् । चर्म वा । अजादेशो वीभावनिवृत्यर्थः ॥ (४६ ) कठति कृच्छेगा जीवतीति कठिनम् । कठोरं वा । कुण्डते दहतोति कुगिड़नः । ऋषिर्वा । यस्यापत्यं कौण्डिन्यः । बईते प्रधानो भवतोति बहिणः । मयूरो वा । फलति विशीणों भवतोति फलिनः । फलवान वृक्षो वा। नलति गन्धयुक्ती भवतीति नलिनम् । कमलं वा। मस्यति परिणमतीति मसिमम् । सुपिष्टं वा । मलते धरतीति मलिनः । मलयुक्तो वा । द्रति जिघांसतीति द्रुहिणः । ब्रह्मा वा । अन्धकारं दात्यवखण्डयतोति दिनम् । दिवसं वा । इनच: कित्वादाकारलेापः ॥ (५० ) द्रवति गच्छति यते प्राप्यते वा । तद् द्रव्यं सुवर्ण परा. क्रमो वा । दक्षते वर्धते शीघ्रकारी भवति वा । स दक्षिणः सरलो वामभागः परतन्त्रोऽनुवर्तनं च स्त्रियां दक्षिणादानं प्रतिष्ठा वा ॥ ( ५१) ऋच्छन्ति गच्छन्ति यत्र यस्माद्वा जनास्तत, इरिणम् । शून्यमषरभूमिवा ॥ (५२ ) यत् वेपते कम्पते यत्र वा तद्विपिनम् । गहनं वा । तोहति गच्छति याचते वा ततुहिनम् । हिमं वा । गुणे कृते इस्वः । For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy