SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - up अथ द्वितीयपादारम्भः कृहभ्यामेणुः ॥ १ करेणुः । हरेणुः ॥ १ ॥ हनिकुषिनीरमिकाशिभ्यः क्थन् ॥ २॥ हाथः । कुष्ठः । नीथः । रथः । काष्ठम् ॥ २॥ . अवे भूत्रः ॥ ३॥ अवभृथः ॥ ३॥ उषिकुषिगात्ति भ्यस्थन् ॥४॥ोष्ठः।कोष्ठः। गाथा । अर्थः॥४॥ सर्तेर्णित् ॥ ५॥ सार्थः ॥ ५॥ (१) करोतीति करेणुः हस्ती हस्तिनी वा । हरति स हरेणः । गन्धद्रव्यं कलापो वा । मटर इति प्रसिद्धः ॥ (२) यो हन्यते येन वा स हथः । दुःखितः शस्त्रविशेषो वा । कुष्णाति निरन्तरं कर्षतीति कुष्ठम् । व्याधिभेदः । कूट इत्याख्यौषधिर्वा । नीयते स नोथः । नयनं वा । शोभना नीथोऽस्यास्तीति सुनीथो धर्मशीलः । रमते यस्मिन् येन वा स रथः । यानं शरीरं पादो वेतसो वा । काशते दीप्यते तत्काष्ठम् । इन्धनं स्थानं कालमानं वा । काष्ठा दिक दारहरिद्रा वा ॥ (३) कथन् । अवबिभत्तीति, अवभृथः । पक्षिभेदो यज्ञान्त स्नानं वा। (४) ओषति यो दहति येन वा स ओष्टः । मुखावयवो वा । कुष्णाति निरन्तरं कति स कोष्ठः । कोष्ठं कुक्षिः कुशलमन्तर्गहं वा। गीयते या सा गाथा वाग्भेदः श्लोको वा । अर्यते प्राप्यतेऽसावर्थः । शब्दानां वाच्या धनं कारणं वस्तु प्रयोजनं निवृत्तिर्विषयो वा । बाहुलकात-श्यति तनकरोतीति शोथः । रोगविशेषो वा । शोतनकरण इत्यस्यात्वनिषेधः ॥ (५) सरति गच्छति स सार्थः समूहो वा । थन्प्रत्ययस्य णित्वाद् वृद्धिः॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy