SearchBrowseAboutContactDonate
Page Preview
Page 894
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९६६ ॥ www.kobatirth.org एवं षण्मासं यावत्तपः कृत्वा, पश्चात् षण्मासं यावद्ये परिहारिकास्तेऽनुपहारिका भवंति, अनुपहारिकाश्च परिहारिका भवंति षण्मासं यावदेवं तपः कुर्वति ततश्च यः कल्पस्थितः, सोऽपि तेनैव विधिना षण्मासं यावत्तपः करोति, शेषेषु षट्सु मासेष्वेकः कश्चित् कल्पस्थितो भृत्वा तेऽन्ये सर्वेऽप्यनुपहारिकाश्च भवंति एवं विधिनाऽष्टादशमासप्रमाणः कल्पो ज्ञातव्यः कल्पसमाप्तौ तु पुनः परिहारविशुद्धिमंतो नवापि यतयो जिनकल्पं वा गणं वाऽाश्रयंति एतदाचारवंतः साधवो हि जिनस्य जिनपार्श्वे स्थितस्य स्थविरस्य गणधरस्य वा समीपं प्रतिपद्यंते, नान्यस्य पार्श्वे तिष्ठति तेषां चारित्रं परिहारविशुद्धिकं तृतीयं ज्ञेयं तथा सूक्ष्मसंपरायं चतुर्थ भवति सूक्ष्मः किट्टीकरणात् स्वल्पीकृतः संपरायो लोभाख्यः कषायो यत्र तत् सूक्ष्मसंपरायं. एतच्चारित्रं ह्युपशमश्रेणिक्षपकश्रेण्यारूढस्य साधोलभानु वेदनसमये भवति. ' सूक्ष्मं संपरायं ' इत्यनुस्वारः प्राकृतत्वात्. ॥ ३२ ॥ अकषायं कषायरहितं क्षपितकषायावस्थायामेतद्भवति, यथाख्यातनामकं तीर्थंकरोक्तं पंचमं ज्ञेयं. इदं हि यथाख्यातं चारित्रं छद्मस्थस्योपशांतमोहाख्ये एकादशे, तथा क्षीणमोहाख्ये द्वादशे गुणस्थाने वर्तमानस्य भवति. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं | ॥ ९६६ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy