SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥९६५॥ णामायो लाभः समायः, समाय एव सामायिकं सर्वसावद्यपरिहाररूपं. यद्यपि सर्वमपि चारित्रं सामा. यिकमेवोच्यते, तथापि छेदोपस्थापनादिभेदेषु प्रथमत्वात्प्रथमं नाम्नां भेदाद ज्ञेयं. यतो हि शब्दाधिक्यादाधिक्यं प्रथमं कथनमात्रत्वेन. तदपि सामायिकं नाम चारित्रं द्विविधं, इत्वरं १ यावत्कथितं च २. भरतैरवतमहाविदेहेषु मध्यमजिनतीर्थेषु चोपस्थापनायाः सद्भावे यावत्कथितं संभवति, उपस्थापनाया अभावे यावजीवमपि भवति. इत्वरं छेदोपस्थापनीयानां साधूनां भवति. तथा द्वितीयं छेदोपस्थापनीयं, अस्य शब्दस्य कोऽर्थः? सातिचारस्य निरतिचारस्य वा साधोस्तीर्थांतरं प्रतिपाद्यमानस्य पूर्वपर्यायव्यवच्छेदश्छेदः, तस्मै छेदाय योग्योपस्थापना महाव्रतारोपणा यस्मिंस्तच्छेदोपस्थापनं चारित्रं द्वितीयं ज्ञेयं. तदपि द्विविधं, सातिचारं निरतिचारं च. अथ परिहारविशुळं तृतीयं, परिहारस्तपोविशेषः, तेन विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिकं भवति. तद्विधिश्चायं-नवयतयो गणात्पृथग्भूयाष्टादशमासान् यावत्साधयंति. तत्र नवसाधूनां मध्ये चत्वारः परिहारिका भवंति, चत्वारोऽन्ये तेषां वैयावृत्त्यकराः, तेऽनुपरिहारिका भवंति. एकस्तु नवमः कल्पस्थितो वाचनाचार्यों भवति. SARAL For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy