________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
उत्तरा
सटोर्क
॥९०५॥
CHOGER-SR
साधुरावश्यकीति वदति. उपाश्रयाद्दहिनिःसरणमावश्यकी विना न स्यात्, तेनावश्यकीति प्रथमा सामाचारी. नैपेधिकीति द्वितीया, उपाश्रयाइहिनिःसरणानंतरं यस्मिन् स्थाने प्रवेशनेन स्थितिः करणीया स्यात् , तत्रापरेषां निषेधान्नैपेधिको करणीया, निषेधे भवा नैपेधिकी. तृतीया सामाचारी आपृच्छना, यतो हि श्वासोच्छ्वासादिकं त्यक्त्वापरं सर्व कार्य गुरोः पृच्छां विना न कार्य, न करणीयं, तस्मादेषा आपृच्छना. चतुर्थी सामाचारी प्रतिपृच्छनानाम्नी भवति. करणीयकार्यस्य गुरोः पृच्छया अनंतरं पुनरपि तस्य कार्यस्य करणप्रस्तावे गुरोः पृच्छना प्रतिपृच्छना ज्ञेया.॥२॥
॥मलम् ॥-पंचमी छंदणाणामा । इच्छाकारो य छडीओ॥ सत्तमी मिच्छाकारे उ। तहकारो य अहमी॥३॥ व्याख्या-पंचमी छंदनानाम्नी सामाचारी, अन्नादिकमानीयोदरमेव भरणीयं नास्ति, किंतु यतीनां सर्वेषां निमंत्रणारूपा छंदनोच्यते, तस्यामेव छंदनायामिच्छाकारशब्दः कर्तव्यः. इच्छाकारशब्दस्य कोऽर्थः? इच्छया स्वाभिप्रायेण करणमिच्छाकार इति व्युत्पत्तिः, यदि भवतामिच्छा भवेत्तदा मम निमंत्रणा सफला कर्तव्येति कथनं, इयं षष्टी सामाचारी. मिथ्याकार इति स
ॐॐॐ
-5345
॥९०५॥
For Private And Personal Use Only