________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२६६
नारायणविरचितदीपिकासमेता -
म्बुजत्रयं सुषुम्नालक्षणैकनालत्वादेकत्वेन विवक्षितमिति विशेषणविशेष्यभावः । कीदृशं विप्रकीर्णाब्जकर्णिकं विप्रकीर्णानि विक्षिप्तान्यम्बुजानि पूर्वोक्तान्याधारादीनि तथा तत्कर्णिकाश्च यस्य तत्तथा नानाकमलमित्यर्थः । तत्र प्रत्येकमर्कचन्द्रवह्नीनां मूर्तिमेकैको - परि ध्यायेत् । तदुक्तम् — “ तस्मिन्सूर्येन्दुपावकान्" इति ॥ १३ ॥
पद्मस्योत्थापनं कुर्याद्वोढुं चन्द्राग्निसूर्ययोः ॥
उत्थापनमूर्ध्वमुखत्वम् । यद्यपि शरीरावयवोऽन्यथा कर्तुं न शक्यते विनाशप्रसङ्गातथाऽप्यधोमुखत्वमधमोन्मुखतोर्ध्वमुखत्वमा स्तिकत्वेनोर्ध्वलो कोन्मुखताविकाशश्च विनिद्रताऽनलसतेत्येवं बोद्धव्यम् । अथवा सुषुम्नानाललग्नानि पत्राण्येव वाताहतान्यूर्ध्वमुखानि भवन्ति तदुत्थापनं द्रष्टव्यम् । किमर्थमुत्थापनमत आह-बो चन्द्राग्निसूर्ययोरिति । कर्मणि षष्ठी । यथा भजे शंभोश्चरणयोरिति । सूर्यचन्द्राग्नीन्वोदुमित्यर्थः । चन्द्रस्य मध्ये सूर्यपावकयोश्चाऽऽद्यन्तयोः क्रमार्थं प्रयोगे कर्तव्य एषां त्रित्वाद्बहुवचनप्रयोगे च कर्तव्ये तथाऽनुक्तिरनिसूर्ययेोरेकत्वसूचनार्था । अग्निसूर्यो पुरुषरूपं चन्द्रश्च स्त्रीरूपं प्रकृतिरूपं तेन प्रकृतिपुरुषौ वोदुमित्यर्थः । प्रकृतेश्चन्द्रस्य मध्ये ध्यानं तु तस्याः पुरुषेण व्याप्तिं दर्शयितुं प्रकृतिर्हि पुरुषेण व्याप्ता पुरुषायत्ता च वर्तते पुंसः सर्ववशित्वोक्तेः । सप्तमी वा चन्द्रादिषु देवतां वोदुमित्यर्थः ॥
तस्याssहुर्बीजमाहृत्य आत्मा संचरते ध्रुवम् ॥ १४ ॥
S.
तस्येति । तस्य पद्मस्य बीजं तद्दर्शितं कर्म ज्ञानं चाऽऽहृत्य गृहीत्वाऽऽत्मा जीवः संचरते लोकालोकान्तरं गच्छतीत्याहुर्भुवं निश्चितं श्रुतयः “ पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन" इति " तमेतं विद्याकर्मणी समन्वारमेते पूर्वप्रज्ञा च" इति " साधुकारी साधुर्भवति पापकारी पापो भवति" इत्याद्याः । अथवा संचरते पत्रात्पत्रान्तरं गच्छति तस्याष्टधा वृत्तिर्भवति । पूर्वदले पुण्ये मतिः । आग्नेय्यां निद्रालस्यादयो भवन्ति । याम्ये क्रूरे मतिः । नैर्ऋत्ये पापे मनीषा । वारुण्यां क्रीडा | वायव्ये गमनादौ बुद्धिः । सौम्ये रेतौ प्रीतिः । ईशाने द्रव्यादाने । मध्ये वैराग्यम् | केसरे जाग्रदवस्था । कर्णिकायां स्वप्नम् । लिङ्गे सुषुप्तम् । पद्मत्यागे तुरीयमिति हंसोपनिषदि I पत्रभेदेऽवस्थाभेदश्रुतेः । अथवा तस्य पद्मस्य बीजं पञ्चाशद्वर्णरूपमाहृत्योच्चार्याऽऽत्मा संचरते व्यवहरति । शाब्दव्यवहारस्य मातृकाधीनत्वात्पञ्चाशद्वर्णबीजायामिति कर्णकाविशेषणोक्तेः ॥ १४ ॥
त्रिस्थानं च त्रिमार्ग च त्रिब्रह्म च त्रिरक्षरम् ॥ त्रिमात्रं चार्धमात्रं च यस्तं वेद स वेदवित् ।। १५ ।।
१ घ. नतौ । २ घ. वहारस्य ।
For Private And Personal