SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ध्यानबिन्दूपनिषत् । २६७ तत्पदं त्रिस्थानं नाभिहृदयं मूर्धा चेति त्रीणि स्थानान्यस्य । त्रिमार्ग च स्थानभेदेनोपासने गतिभेदात् । त्रिब्रह्म नाभौ विष्णुर्खदि ब्रह्मा मूर्ध्नि त्रिलोचन इति त्रीणि ब्रह्माण्यस्य । त्रिरक्षरं त्रिवारमक्षराण्यकारादीन्यस्य । त्रिमात्रं ता एव मात्रा अकारादिषु मात्राव्यवहारात् । तदेवान्नं तदुपर्यधमात्रं च यः पुमांस्तमकारादिप्रणाल्याऽर्धमात्रास्थं पुरुषं वेद स वेदवित् । वेदोक्तं वेत्ति ॥ १६ ॥ इदानीमर्धमात्रारूपाद्विन्दोः परस्य नादस्य स्वरूपं दर्शयंस्तद्ध्याने फलमाह--- तैलधारमिवाच्छिन्नं दीर्घघण्टानिनादवत् ॥ अवाग्ज प्रणवस्याग्रे यस्तं वेद स वेदवित् ॥ १६ ॥ तैलेति । तैलस्य धारा तैलधारं छान्दसं क्लीवत्वम् । यथा तैलधाराऽच्छिन्ना सत्यविच्छेदेनानुभूयते तथा विशदा दीर्वा चानुभूयते तद्वत् । तर्हि धारावदेवाने सूक्ष्मो न स्यादत उपमान्तरम्-दीर्घेति । अवाग्नं ब्रह्मणोऽवागधस्तदनुभवात्प्राग्वर्तमानम् । अथवा न वाचो जातमवाग्जं वाचो विराम उपलभ्यत्वात् । तथा प्रणवस्याग्रे प्रणवादूचं प्रतीयमानं तं नादम् । वेदोपास्ते । वेदवित् । शक्तिशान्ते अपि प्रणवरूपे जानातीत्यर्थः ॥ १६ ॥ इदानी शूरस्य युद्ध इव क्षिप्रकारित्वमुपदिशन्प्रणवाभ्यासे प्रकारमाह प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।। अप्रमत्तेन वेदव्यं शरवत्तन्मयो भवेत् ॥ १७ ॥ प्रणव इति । अयं मन्त्रो मुण्डकेऽप्यस्ति । वेद्धव्यं मनसा ब्रह्म प्रवेश्यम् । किंव. च्छरवत् । यथा शरो विध्यति फलं तन्मय इति ब्रह्ममयो जीवः: स्यादित्यर्थः ॥ १७ ॥ स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।। ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् ।। १८ ॥ स्वदेहमिति । आत्मानमरणिमिति ब्रह्मोपनिषदि पाठः । स्वदेहो लिङ्गम् । एवमनेन प्रकारेण निगूढवन्निलीनवद्गुप्तवस्तुवत्पश्येत्सूक्ष्मदृष्ट्या निरीक्षेत ॥ १८ ॥ ___यथैवोत्पलनालेन तोयमाकर्षयेत्पुनः॥ तथैवोत्कर्षयेद्वायुं योगी योगपदे स्थितः ॥ १९ ॥ उत्कर्षयेद्वायुं स्वाधिष्ठानादिचक्रभेदेनोर्ध्वभूमिकां प्रापयेत् ॥ १९ ॥ अभ्यासप्रकारमाह अर्धमात्रां रज्जुं कृत्वा कूपभूतं तु पङ्कजम् ॥ कर्षयेनालमार्गेण भुवोर्मध्ये नयेल्लयम् ॥ २० ॥ १ क. ग. लक्षमु। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy