________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। प्रवाहप्रवादितादयोऽयं जीवस्तद्वचनं तथेति प्रतिपद्यते। ततस्ते तस्मै दधुरुपदेशं यदुत मौम्येदमेवात्र परमगुह्यं सम्यगवधारणौयं भवता यदुत यावदेष जौवो विपर्यासवशेन दुःखात्मकेषु धनविषयादिषु सुखाध्यारोपं विधत्ते सुखात्मकेषु वैराग्यतपःसंयमादिषु दुःखाध्यारोपं कुरुते तावदेवास्य दुखसम्बन्धः / यदा पुनरनेन विदितं भवति विषयेषु प्रवृत्तिर्दुःखं धनाद्याकाहानिवृत्तिः सुखं तदायमशेषेच्छाविच्छेदेन निराकुस्ततया स्वाभाविकमुखाविर्भावात् सततानन्दो भवति / अन्यच्च / भवतोऽयं परमार्थः कथ्यते यथा यथायं पुरुषो निःस्पृही भवति तथा तथास्य पाचतया सकलाः संपदः संपद्यन्ते। यथा यथा संपदभिलाषौ भवति तथा तथा तदयोग्यतामिव निश्चित्य तास्ततो गाढतरं दूरीभवन्ति / तदिदं निचित्य भवता मर्वत्र सांसारिकपदार्थसाथै नास्था विधेया। ततस्ते स्वप्नदशाथामपि पौडागन्धोऽपि मनःशरीरयो व संपत्स्यत इति / ततोऽयं जौवस्तमुपदेशममृतमिव ग्टौयात् / ततस्ते धर्मगुरवः संपना मढद्धिरस्येति कृत्वा नेदानीमेषोऽन्यथा भविष्यतीति तं प्रति निश्चिन्ता भवेयुरिति / नतः प्रादुर्भुतमइद्धिरयं जीवो यद्यपि श्रावकावस्थायां वर्तमानः कुरुते विषयोपभोगमादत्ते धनादिकं तथापि यस्तत्राभिव्वङ्गोऽटप्तिकारणभूतः स न भवति ततो ज्ञानदर्शनदेशचारित्रेषु प्रतिबद्धवान्तःकरणस्य तस्य ते द्रविणभोगादयो यावन्त एव संपद्यन्ते तावन्त एव मन्तोषमुत्पादयन्ति / ततोऽयं मधुद्धिप्रभावादेव नदानौं यथा ज्ञानादिषु यतते न तथा धनादिषु ततोऽपूर्वा न वर्द्धन्ने रागादयः तनूप्रभवन्ति प्राचौनाः / तथा पूर्वोपचितकर्मपरिणतिवशेन For Private And Personal Use Only