SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 90 तैत्तिरीयसंहिता. का. १. प्र. ७. पतये त्वा जुष्टं गृह्णाम्येष ते यो निः प्र॒जाप॑तये त्वा ॥ ४६॥ तय इति प्र॒जा-पतये । त्वा । जुष्टम् । गृह्णामि । एषः। ते । योनिः । प्र॒जाप॑तय इति पूजा-पतये। त्वा ॥ ४६ ॥ कोशस्तनुवां त्रयोदश च ॥१२॥ 'हलि लोपः' । यहा-अया अस्मिन् जगति विष्ठाः । सप्तम्या याजादेशः । विष्ठाः विविधं तिष्ठन्तीति । 'क्विप्च' इति क्विप् । सर्वात्मतया स्थित इत्यर्थः । जनयन्नुत्पादयन् कर्वराणि कर्माणि कार्यजातानि वा य एवं करोति प्रजापतिः स हि घृणिः दीप्यमानः । घृणि दीप्तौ 'इन् सर्वधातुभ्यः' इतीन् । हेतौ हिः । घृणिमान्वा घृणिः, मत्वर्थीयो लुप्यते । उरुर्महान् वराय वरिष्ठाय फलाय गातुर्मार्गः प्राप्तेः पुरुषार्थप्राप्तिमार्गः । तादर्थे चतुर्थी । स तादृशः प्रत्युदैत् प्रत्युद्गच्छतु । छान्दसो लुङ् । किम् ? मध्वः उदकस्य अग्रं सारम् । नुमभावच्छान्दसः, 'जसादिषु वा वचनं प्राङौ चपधायाः' इति गुणाभावः। धरुणो धारयिता स तादृशः मधुनोग्रं प्राप्नोतु । यद्यस्मात्स्वायामात्मीयायां तनुवां शरीरभूतेस्मिन् ग्रहे तनूं स्वशरीरमैरयत प्रेरयति; तस्मादेतद्गहात्मा अस्मदभिमतं साधयत्विति । उपयामगृहीतोसीत्यादि गतम् । प्रजापतिशब्दे 'पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । वाजपेयमन्त्रास्समाप्ताः ॥ इति सप्तमे द्वादशोनुवाकः. . For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy