SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १०.] भभास्करभाष्योपेता. 77 नानि सर्वतः । स विराज पर्यंति प्रजानन्प्र॒जां पुष्टि वर्धय॑मानो अस्मे। वाजस्येमा प्रेसवशिश्रिये दिवमिमा च विश्वा भुवनानि सम्राट् । अदित्सन्तं दापयतु प्रजानयिम् ॥ सः । विराजमिति वि-राजम् । परीति । एति । प्रजानन्निति प्र-जानन्न् । प्रजामिति प्र-जाम् । पुष्टिम् । वर्धय॑मानः । अस्मे इति । वाज॑स्य । इमाम् । प्रसव इति प्र-सवः । शिश्रिये। दिवम्। इमा। च । विश्वा । भुवनानि । सम्राडिति संराट् । अदित्सन्तम् । दापयतु । प्रजाननिति प्रइति शेर्लोपः । स वाजस्य प्रसवः अन्नं वा कर्म वा विरानं प्रजापतिं कर्मपक्षे अन्नं पर्येति प्राप्नोति । प्रजानन् प्रजानन्निव मयैतत्कर्तव्यमिति विद्वानिव प्रजा पुष्टिञ्च वर्धयमानः वर्धयितुम् । हेतौ शानच् , अदुपदेशालसार्वधातुकानुदात्तत्वे धातुस्वरः । अस्मे अस्माकं अस्मदर्थम् । 'सुपां सुलुक्' इति शे आदेशः, उदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम् ॥ __अथ तृतीया-वाजस्य प्रसवो यथोक्तस्वरूपः इमां दिवं एथिवीम् । त्रिष्वपि लोकेषु दिवशब्दो वर्तते । यथा 'तृतीयस्यामितो दिवि '* इति । शिश्रिये श्रितवान् इमं लोकं *सं. ३-५-७. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy