SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 78 तैत्तिरीयसंहिता. का. १. प्र. ७. ॥४०॥ च नस्सर्ववीरां नि यच्छतु । अग्ने अच्छा वदेह नः प्रति नस्सुमना भव । प्र णो यच्छ भुवजानन्न् । रयिम् ॥ ४० ॥ च । नः। सर्ववीरामिति सर्व-वीराम् । नीति । यच्छतु । 'अग्नै । अच्छ । वद । इह । नः । प्रतीति । नः। सुमना इति सु-मनाः । भव । प्रेत । नः । यच्छ । भुवः। धारयितुम् । अनेन हीहत्यानां स्थितिर्भवति कर्मणा वा वृष्टयादिद्वारेण तत इमानि विश्वानि भुवनानि सप्रसवश्शिनिये । अन्नेन हि कर्मणा वृष्टयादिद्वारेण विश्वेषां भुवनानां स्थितिर्भवति यथा 'तस्मादितः प्रदानं देवा उप जीवन्ति '* इति । सम्राट् संहतदीप्तिः नोस्मभ्यं अदित्सन्तं दातुमनिच्छन्तं दापयतु । यो हि दित्सन् भवति स हि स्वयमेव ददाति । प्रजानन् प्रज्ञावानिव अस्मद्विषये प्रवर्तताम् । किञ्च-रयिं धनं च सर्ववीरपुरुषान् नियच्छतुं नियमयतु ददातु अस्मासु स्थापयतु वा ॥ __'अथ चतुर्थी-अग्न इति ॥ हे अग्ने इहास्मिन् कर्मणि नोस्मान् अस्माकं वा इहास्मिन् कर्मणि अच्छवद आभिमुख्येन वद अस्मद्धितं ब्रूहि । किञ्च-नोस्मान् प्रति सुमनाः कल्याणमतिश्च भव मनसा च अस्मद्धितमनुचिन्तयेत्यर्थः । किं वः क्रियतामिति चेत् ; नोस्मभ्यं प्रयच्छ देहि धनमिति गम्यते ; 'धनदा असि' इति वक्ष्यमाणत्वात् । 'उपसर्गाद्वहुलम् ' इति नसो णत्वम् । भुवस्पते पृथिव्याः पते । 'षष्ठयाः पतिपुत्र' इति *तं. ३-२-९. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy